________________
५०३
नन्द्यावर्त मतं पूर्व पश्चिम दक्षिणे तथा ॥ ८॥ उत्तरे द्विमुखोपेतं निष्पटश्वरमं मतम् । चरकं देवयोग्यन्तु कथितं पूर्वमूरिभिः ॥ एकानेकतलोपेता नानालङ्कारभासुरा । खलूरिकायुता राज्ञां प्रासादेषु विशेषतः ॥ १० ॥ डोलास्थानसमायुक्ता कटकम्बलमण्डिता ।
स्वस्तिकशालाया द्वारषट्कं, वर्धमानशालायाः पश्चाद्भागं विनाऽन्यत्र स्थानत्रये द्वारत्रय, नन्द्यावर्तशालायाश्चतुर्वपि मध्यदिग्भागेषु द्वारचतुष्कमिति क्रमः । 'निष्पटं चरक मतम' इत्यत्रायमर्थः । सर्वतो भागेषु भित्तिद्वारकबाटाद्यावरणरहिता चरकाख्या शाला तु न मानववासाहीं । परन्तु क्वचिल्लीलाविहारार्थ देव योग्यति समय इति ।।
तस्मादस्याः विशेषशालायाः निर्माणं यदि भूपालप्रासादेषु कृतं तदा तत्पूर्वभागे सव्यापसव्यकस्थाने कचित्खलूरिकाख्ययोधप्रहरणस्थापनस्थलं क्षुद्रमण्डपाकारं कूटाकारं वा प्रकल्पयेत् । नान्यत्रेति मतिः । अत एवं प्रकारलक्षणान्विताया महाशालायाः विशेषशालायाश्च वधूवरवेदिका समीपे वा कल्पनमध्यभागे था, मुखद्वारसमीपस्थले वा विहारडोलास्थानं प्रकल्प्य, सर्वतो भूमि. भागेष्वधास्थले मसणीकृते, कचि चित्रिते मूदुकम्बलैः, कादि.