________________
४९७
चत्वारिंशत्पदोपेता चतुर्विशतिपादका ॥ ८॥
पादषोडशका वाऽपि मध्याङ्गणसमुज्ज्वला । चतुरश्रायता शाला चत्वरान्तिकभाक्तथा ॥९॥
विनैव महाशालाविशेषशालानिर्माणमपि न दोषप्रसक्तये । परन्तु सुखनित्यशोभादिराहित्यायेति वदन्ति शिल्पिनः । तस्मात्सर्वत्र देशेषु संप्राप्तवास्तुभूभ्यनुगुणं, स्वविभवानुगुणं चाधिष्ठानकल्पनतदभावकल्पननियम इति च क्रमः । तस्मादिमां महाशालां पूर्वोक्तरीत्या पार्श्वस्य कल्पनानुगुण्येन दृढाधिष्ठानस्थितां विरचय्य चत्वारिंशत्स्तम्भयुतां वा चतुर्विंशतिस्तम्भयुतामथवा पोडशस्तम्भयुतां प्रकल्पयेदिति शिल्पसमयः ॥
किञ्चतादृशलक्षणान्तिा महाशाला राज्ञां प्रासादेष्वेष कल्पनीया । तदितरमा नवभव नादिषु सति विभवे तद्रीत्या स्थापनं वरम् । वित्तादिशक्यभावे स्तम्भचतुष्टयस्तम्भाष्टकस्तम्भद्वादशकभाजां शालानां कल्पनमपि भूयसे श्रेयस इति भावः । किञ्च सर्वत्र वास्तुभूमिषु ब्रह्मभागाख्यमध्यभागस्थितचस्वरसमीपे यद्यस्याः शालायाः प्रकल्पनं निर्णीत, तदाऽस्याः शालायाः प्रमाणमायामाधिषयवस्त, अथवा चतुरश्रकवदिति तन्मानकथनक्रमः । स्थलान्तरस्थापनविषये तु मण्डलाकार. मधवा परभकामष्टाभका, द्वादशाभका प्रकल्पयेदिति तद्विकल्पोऽपि
8.8. 68