________________
४८६.
किश्चैवमत्र प्रतिपादितमुख प्रतिमुख तोला किङ्किणिकादीनां सङ्घकेतनाममाजामङ्गवङ्गादिदेशभेदेन तत्तत्स्थानक्रियायोतकानां पताकाख्यचित्रक्रियाणां प्रमाणकल्पनशैलीनिर्माण सहकार्यायुधभेदादिकं सर्वमपि शिल्पाचार्य परम्परोपदेशादिभिरेव ज्ञातुं शक्यम् ॥
किञ्च शिल्पिभिर्विनाऽन्यैः शास्त्रज्ञैरपि सर्वथा नैतेषां पताकादीनां पारिभद्राख्यलोहकृतिभेदानां च लक्षणादिकं निर्णेतुं शक्यम् । तथापि अस्माभिर्यथामति
व्याख्यान
धोरणीमप्याश्रित्य कचित् व्याख्यायते । यथा
मुखनामकपताकाख्यशिल्परचना तु पूर्वोक्तद्वारपट्टिकादिस्थलेषु अभिमुखसूत्रपातकसं कल्पिता वाजिवारणमशुकशारिकाहरिण के कि गन्धर्वयक्षकिन्नरदेवादीनां मुखसदृक्टङ्कादिशिल्परचनेत्यर्थः ॥
--
क
एवं प्रतिमुखनासकपताका तु एतादृशवाजिवारणहंसादिमुखरचना कल्पनं विनैव तत्प्रतिमुखरूपिका । भूतवेतालपिशाचिकावानरभल्लूकादिमुखाख्यप्रतिमुखरचना तु देवालयस्तम्भसोपानवलभीप्रान्तस्तम्भप्रस्तरादिभागेष्वेव स्थापया । सर्वथा न मानवगृहेषु कल्प्येति नियमः ||
तोलाख्यपताका तु तत्र तत्र स्तम्भादिप्रस्तरभागेषु चतुरश्र - रूपं मध्यस्थकुसुमरचनमन्त्यभागेषु द्वित्रिरेखायुतं कल्पन
मित्यर्थः ॥