________________
मध्ये महापक्तियुक्तमृजुसूतं च निश्चलम् । तीरमण्टपसंयुक्तं तीरवृक्षैश्च शोभितम् ॥ ६॥ जलमण्टपसंयुक्ता क्वचित्कार्योत्तमे ... .... । देवे तटाके तत्कल्प्यं विमानशिखरोज्ज्वलम् ॥ ७॥
गलौननिकं टङ्कादिना समस्थलं प्रकल्प्य दशसोपानकल्पनानन्तरं अतिविशालमेकं महासोपानाख्यं विश्रान्तिसोपानकल्पनं च स्थापयेत् । एवं तत्र तत्र स्थलानुगुणं मध्ये मध्ये विश्रान्तिमोपानं महासोपानमितरत्र पूर्वोक्तद्वादशा गुलाद्युपेत सोपानरचनाञ्च दृढं स्थापयेदिति कमः ।।
किञ्चैतस्य सोपानमार्गस्य मध्यतले तत्र तत्र समुचितस्थले क्षुद्रमण्ट पकल्पनं जपवेदिकायुतं शिलामयमिष्टिकासुधामयं वा प्रकल्पयेत् । एतादृशक्षुद्रमण्ट पानाम्चतुष्कं, षटकं, अष्टकं, दशकं, षोडशकं, चतुर्विशतिक, द्वात्रिंशत्कं वा तटाकवैशाल्याद्यनुगुणं स्थापयेदिति क्रमः । किश्वप्रकारेण कल्पितानां मण्ट पानां तीरमण्ट पकल्पनमिति व्यवहारः। अभ्य च तटाकस्य मध्यतले ऽन्तःकूपसमीपे साधिष्ठानं चतुःस्तम्भयुतमष्टस्तम्भसहितं, षोडशस्तम्भकश्चतुर्विंशतिस्तम्भकं वा जलमध्यमण्टपञ्च सबलभीक शिलामयमेव स्थापयेत् ॥
विशेषतो देवालयतटाकनिर्माण एवं जलमभ्यमण्टपकल्पन8. B. 56