________________
४३९
अन्तःपसमायुक्तं दक्षिणोत्तरदैर्ध्यकम् ।
तटाकमिमं स्थापयेदित्युत्तमः पनः । क्वचित्तादृशसन्ततजलप्रसाराभावे त कल्पित तटाकेऽन्तिकस्थनदी जलाशयगिरि - प्रस्रवणादिप्रदेशान प्रणाल्यादिना तन्मधुरमलिलमत्र पूरयेदिति मध्यमः पक्षः 1 अयमर्थ: 'निष्पङ्कागासलिलं पूरयेद्वा क्वचित्स्थळे' इत्युक्तेरिति भावः ।। २ ।।
अथ तटाकस्य प्रमाणादिकमाह - अन्तः कूपसमायुक्तमित्यादिना । एवं सर्वत्र परीक्षय निर्दिष्टे मधुरजलस्त्रात्रिणि स्थले तटाकनिर्माणेऽपि तादृशतटाकस्य मध्यभागेऽन्तः कूपाख्यं महावढं खात्या तत्रत्य में कतजलदृयादेरुतेजनं कार्यमिति नियमः | तदात्व एवं प्रीष्मादावप्यशेोष्य जल समृद्धिर्भवेदिति
भावः ॥
क्वचिच्छिलामयभूमौ तटाकनिर्माणे कृतेऽपि तादृशतटाकादिमध्यभागे चैवंरीत्याऽन्तः कूपाख्यमगाधावटं खातयेत् । तत्तदा शिलान्तःस्थलं सलिलं प्रस्रावयेदिति क्रमः । सर्वथा न कृष्णमृत्तिकोपरमृत्तिकादिनिर्भरस्थले तटाकनिर्माणं स्थापनीयमिति भावः । तस्मादेवमुक्तरीत्या परीक्ष्य निर्दिष्टायां मधुरजलस्राविण्यां भूमौ तटाक निर्माणाय खनने कृते तन्मध्ये कचित्पाषाणखण्डादिदर्शनेऽपि तत्सकलं बहिर्व्यपोह्य, दक्षिणोत्तरदिग्भागयोः दैर्घ्ययुतं