________________
४१५
एवं क्षेपणभेदेन भागकल्पनभेदतः । सा शैली कांथता प्रायः सप्त वाऽऽनन्दकारिणी ।। शिलायामुपपीठेषु कवाटद्वारकल्पने । गवाक्षस्थलडोलासु तिर्यग्दारुकलापिषु ॥ २२ ॥ सोपानेष्वपि खट्वेषु पीठस्तम्भादिकर्मसु । वाजकुम्भादिकार्येषु प्रोक्तयं क्षेपणक्रिया ।
विधभागविभजनविविधचित्रकरणादिनैव पूर्वोक्तानामष्टविधकल्पन. शैलीनां निर्णयो भेदश्च ज्ञेय इत्यर्थः । अपि चैतादृशाधिष्ठानकल्पनं तु पाञ्चालशैलीप्रमाणसहितं वा मागधशैलीप्रमाणसहितं वा शूरसेनवङ्गकोसलकलिम द्राविडाख्यशैल्यन्तरप्रमाणमिलितं वा शुद्धं सङ्कीर्ण प्रकल्पयेदिति तत्क्रमो विज्ञेयः। किञ्च तत्तत्क्षेपणभेदेनैवोह्यानामष्टविधानां शैलीनां भेदादिकं तु शिल्पिभिस्स्वयमेव यथाशोभं यथाबलं निर्णीय कार्य ज्ञेयमिति च भावः ।।
किञ्चैतादशलक्षण जात्यादिविशिष्ठमधिष्ठानतोरणादिकरणं तावत् सोपानशिलायामुपपीठेषु, कवाटभागेषु, द्वारभागेषु, गवाक्ष द्वारादिषु, स्थूलाख्यतिर्यग्दारुषु, डोलासु कलापिषु , दारुमयसोपानेषु , कचित्सुधेष्टिकामयस्तम्भेषु , शिलामयस्तम्भेषु च वाजिकुम्भादितक्षणकार्यजालेष्वपि तब तत्र स्थलकल्पनानुगुणं युक्त्या यथाशोभं यथाबलं तत्तल्लक्षणमनोहरं दोषहीनं प्रकल्पये