________________
अथ सकलविधवारलक्षणकथनं नाम
॥ पञ्चविंशोऽध्यायः॥
शुभे मुहूर्ते सुदिने स्थपतिधृतककणः । शुचिः शुद्धमना भक्त्या पूजयित्वेष्टदेवताः ॥ १ ॥ सर्वमङ्गलघोषैश्च स्वस्तिशब्देश्च शिल्पिभिः । वास्तुं प्रदक्षिणीकृत्य मुखद्वारं प्रकल्पयेत् ॥ २ ॥ प्रासादे भवने हर्पा मठमण्डपसबसु । शालासु क्षुद्रगेहेषु भौमस्थानेष्वपि क्वचित् ।। ३ ।।
-
॥ पञ्चविंशोऽध्यायः॥ अथास्मिन्पश्चविंशेऽभ्याये गृहभवनप्रासादादिषु स्थापनीयद्वाराणां लश्नणमुपपादयति ~ शुभे मुहूर्त इत्यादिना । ज्योतिइशास्त्रप्रतिपादितरीत्या गृहपतिप्रमुखानां शुभफलप्रदतिथिवार. योगकरणलमादिभासुर शुभमुहूर्ने गृहभवनादिकार्यनिर्माणार्थ स्थपतिरादौ धृतकङ्कणः सन् धौतवस्त्रोत्तरीयको मनसि वास्तुनाथं हरिहरविरिश्चिप्रमुखान दिशापतीनवग्रहमण्डलं च ध्यात्वा गणपति. प्रमुख स्वेष्टदेवतां गन्धकुसुमादिभिरभ्यर्च्य तक्षकलाहकारककशकारमुखै त्यवगैरुदकुम्भहस्तेन गृहपतिना च सह निर्दिष्टगृहभवनादि. वास्तुभूमि प्रदक्षिणीकृत्य मालपोषपूर्वकं तादृशगृहभवनादेः प्राथमिकं द्वारं समुचिते स्थले स्थापयेदिति लक्षणवाक्या: ।