________________
૨૮૦
चतुर्दण्डप्रमाणेन हीनं नोतममीरितम् ॥ ३ ॥
चतुश्शालावृते मध्यभागे मण्डलकल्पनम् । विश्रान्तिवेदी तत्रैव गन्धशैत्यादिभासुरा ॥ ४ ॥
चत्वरादिसमोपेता सालङ्कारा सतारणा । मुखीकरणयुक्तं वा मण्टपाकृति वा भवेत् ॥ ५ ॥
तच
वसन्तगृहकल्पनं
चतुर्दण्डप्रमाणाधिकवैशाख्याद्युपतमेव
कार्यम् । न तत्प्रमाणन्यूनतेति भावः । किञ्च तस्य वसन्तगृहमुख्यकल्पनस्य पुरोभागे दण्डद्वयान्तरालस्थलवति प्राच्यादिषु चतुर्ष्वपि दिग्भागेषु मन्दमारुतवीजनाही अनेकस्तम्भोपेताः विविधाङ्गणयुक्ताः क्षुद्रशाला: प्रकरूप्य, तासु शालासु जलकुम्भादिशैत्योपचाररचनाश्व स्थापयेयुरिति ॥
किन एतादृशरीत्या शैतल्यारोग्यप्रदाभिः शालाभिः समन्ततः समावृतस्यास्य मध्यकल्पनस्थलस्य मध्यभागे विकसितपद्माकारं करूपनं विश्रान्तिवेदिकया सहितं ससुषिरं शालारूपमेक भौमयुतं भूपालादये प्रकल्पयेत् । चक्रवर्तिनस्तु इदं विभौम युतमेवेति एतच्छालारूपं वसन्त सदनकल्पनमिति भावः । तत्र मण्टपरूपवसन्तगृहनिर्माणलक्षणं यथा - शालारूपनिर्माणे तावत्सुषिरकल्पनादि: । अत्र तु मण्टपरूपनिर्माणे तादृशसुषिरादिकं विना दारुस्तम्भकल्पनं वा सुधेष्टिकामय स्तम्भस्थापनं वा कृत्वा