SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३५३ मण्डलामादयश्चान्ये परमर्मप्रभेदिनः । तानशेषांस्तदीशानानर्चयेत्प्रत्यहं नृपः ॥ १५ ॥ दशादिविंशतीदण्डवैशाल्येन समन्विताम् । प्राचीमुखां स्थापयेत्तु पञ्चप्राकारसंवृताम् ॥ १६ ॥ उत्तमाधिष्ठान भावां पञ्चशालान्वितां तथा । काली रुद्रपति द्वारे स्थापयेत्तत्र भूपतिः ॥ १७ ।। महावेदीमध्य भागे क्षुद्राधिष्ठान संयुता । चतुक्षुद्रपदोपेता चतुःकर्णसमन्विता ।। १८ ॥ दशादीति । पूर्वोक्तस्थाने आयुधशालामिमां कचिन यथेष्टः वैशाल्योपेतां वा देयान्वितां वा प्राकारपश्च कावृतां पञ्चशालायुतां द्वादशाङ्गणसमेनामलिन्दभागपटक युनाञ्च प्रकल्प्य मुख्यद्वार प्राचीदिङ्मुखं स्थापयेत् । तादृशमुख्य द्वारभागोपरितले पार्श्वयोश्च सपरिवाराया महाकाल्याः भैरव्या वा पराक्रम कनिकेतनस्य कालरुद्रस्य वा चित्रं, प्रतिकृति, बिम्ब वा रचयेत । एतादृशायुध. शालां पूर्वोक्तरीत्या उत्तमाधिष्ठाने प्रकल्पयेत् ।। किश्वतस्याः शालाया मध्यभागस्थ महाशालामध्यभागस्य मध्यमे स्थले सक्षुद्राधिष्ठानां दण्डद्वयाद्यायाम सहितां काञ्चन वेदी कृत्वा तत्रैव चतुर्दिङ्मध्यभागस्थले यन्त्रस्थलमध्ये कर्णिकास्थाने पूर्वोक्तहींकारादिमातृबीजाक्षराणि बिलिख्य तन्मध्ये क्षत्रिय
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy