________________
अथायुधशालालक्षणपुस्तकशालाल भणनिरूपणं नाम
विंशोऽध्यायः ॥
तत्र प्राथमिकमायुधशालालझणम् ॥ देवप्रमादनप्राप्ति: जयश्रीवर्धनं तथा । आरोग्यवर्धनं नित्यमायुधादिनिरीक्षणात् ॥ १ ॥ तम्माद्भूपतिना स्थाप्यमायुधागारकल्पनम् । प्रासादमध्यभागे वा न्यायशालासमीपतः ॥ २॥
॥ विंशोऽध्यायः ॥ अथायुधशालाल झण कथनात्मक विशाध्यायमारभने-देवप्रसादनप्राप्तिरित्यादिना। तत्रायुवशालास्थापनेन फरप्राप्तिमादी
आविष्करोति - देवेति । प्रथमतो देवादीनामनुग्रहप्राप्तिस्तद्वारा तदनु समरभूम्यादिपु विजयः, पश्चात्मप्रातराज्याभिवृद्धिः, सुतादि. श्रेयः परम्परा च । किञ्च प्रत्यहं ताहशायुधादीनां दर्शनेनारोग्यवृद्धिरायुद्धिरित्यादिश्रेयांसि भवेयुरिति शास्त्रकाराणामनुग्रहोपदेशपरिपाटी । नात्र सन्देहः कार्य इति भावः । तस्मात् भवियकुलोद्भवो भूपालः स्वस्य स्वकुटुम्बस्य प्रजानां चाभिवृद्धये आयुधशालास्थापनमवश्यं कुर्यादित्युक्तं भवति ॥
कुत्र वा स्थाप्येत्यत्राह -प्रासादेति । भूपालस्य