________________
३२१
अथ चतुर्विशतिस्तम्भस्थापनक्रमो यथा --- पुरोभागे स्तम्भाष्टकं पश्चाद्भागे च स्तम्भाष्टकं स्थापयित्वा मध्यभागे मण्डलाकारे स्तम्माष्टकञ्च प्रकल्प्य तवैव देववेदी सिह्मासनस्थापनार्थ प्रकल्पयदिति क्रमः ॥
अथ विंशतिस्तम्भस्थापनक्रमो यथा - प्राच्यादिषु चतसृष्वपि दिक्षु समसूत्रं स्तम्भचतुष्कं प्रत्येकं स्थापयित्वा मध्यभागे चतुरश्रकल्पनामथवा मण्डलाकारकल्पनं स्तम्भचतुष्कसहितश्च प्रकल्पयदिति क्रमो बोध्यः । एतत्सर्वमप्यत्रत्योद्धारमण्डलनिरीक्षणेन सुलभवेद्यमिति भावः । एवमत्र त्रिविधायां न्यायशालायां प्रतिपादितस्तम्भलक्षणस्य पूर्वभवनलक्षणादिष्वतिव्याप्त्यादिदोषासक्तिनँव । कथम ? तदपेक्षयाऽत्र स्तम्भसंख्याधिक्यकथनादिति समञ्ज सम ॥
न्यायशालासु स्थापनीयस्तम्भक्रमद्योतकोद्धारो यथा -