________________
चतुर्विशत्पदोपेतामुत्तगस्यां सतोरणाम् ॥१०॥ विमानरचनोपेतामेकादितलभामुग़म् । स्थापयेन्मानविच्छिल्पी युक्त्या मानेन मर्वतः ॥११॥ अथवा विंशतिपदैस्संयुतां मध्य शालकाम् । चतुःपदयुतां दिक्षु युग्मपादयुगान्विताम् ॥ १२ ॥ वर्तुलां चतुरां वा तां प्राच्यादिगतां नयेत् । सयालिकाननां पार्श्वद्वारोपद्वारशोभिनीम् ॥ १३ ॥ इत्यादि बहुधा चिद्वैश्शोभितां कल्पये द्वधः ॥१४॥ इनि विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे पौरदेश्यसभादिकथनं नाम
सप्तदशोऽध्यायः॥
मुखादिचित्ररचनोपेतामन्तर्भागेषु तत्र तत्र भित्त्यन्तेषु समुचितस्थलेषु चित्ररचनादिभासुरां मुन्दराकृतिञ्च कल्पयेदित्यर्थः ।।
अपि चेमां प्रधानिकां शालां सिह्मासनवेदिकोपरि सोधभागे सशिरोविमानलसितां चत्वारिंशत्स्तम्भसहितां च स्थापयित्वा अस्याश्शालाया मध्यमाङ्गणे दशदण्डादिविंशद्दण्डावधिकेषु प्रमाणमानेषु भूपदण्डदशकवैशाल्ययुतं द्वादशदण्डवेशाल्ययुतं वा चतुदेशदण्डवैशाल्यायामादिसहितं वेत्यादियुग्मक्रमकल्पनासहित