________________
सार्वभौमादिभ्रपानां गुणिनां नयचक्षुषाम् । आस्थानिकं द्विधा प्रोक्तं न्यायशालासभाक्रमात् || न्यायशालास्थानिकन्तु प्रत्यक्षं राजपूजितम् । धर्मस्थापनकार्येषु साक्षीभूतमहेश्वरा ॥ २ ॥ सभा व्रतदिनास्थानं महिष्यादिभिरचिता । प्रासादे भवने हर्म्ये परिवारावृताङ्गगे || ३ ||
॥ पोडशोऽध्यायः ॥
अथ न्यायशालालचणकथनात्मकं षोडशाध्यायमुपक्रमतेसार्वभौमादिभूपानामिति । पक्षपातरहित्यकामक्रोधादिराहित्ययथोचितदण्डदयालुत्वादिसद्गुणशालिनां बहुविधन्यायशास्त्रज्ञानां सार्वभौमानां सत्क्षत्रियवंश्यानां भूपालानां च निवेशस्थलन्तु न्यायशाला सभाभेदेन द्विविधमुक्तं पुराणेषु शिल्पः । अस्य विशदार्थस्तु प्रत्यहं भूपालादिभिर्जगतां श्रेयसे वन्दितं स्थलं न्यायशालाभिधं भवति । सभा तु महिषीपुरोहितकुलगुरुसमेतस्य भूपालस्य जन्मनक्षत्रादिव सन्तोत्सव दिनादि समयेषु विविधेध्वनुष्ठेयानेक व्रतकरणोचितं स्थलं सभाभिधानमिति क्रमार्थो
बोध्यः ॥
अथ न्यायशालालक्षणनिरूपणं नाम
षोडशोऽध्यायः ॥
-
S. 8. 38