________________
२४४
सामग्रीस्थापनस्थलमित्यादि बहुविधसमयेषु उपकारक स्थल. मनेकासनस्थलभासुरञ्च कार्यमिति भावः ॥
किश्चायमेव प्रामादः क्षुद्रकायो वार्थलहीनो यदि स्थापितस्तदा तादृशोपशालाकोणशालालिन्दशालादिसकलनिर्माणभागानामपि पूर्वोक्तशैल्या भूपदण्डद्वादशकप्रमाणसहितत्वं ज्ञेयम ।।
अयं खण्डहर्म्यविहीनः क्षुद्रप्रासाद इति यावत । एवं क्षुद्रप्रासादकरणे प्रासादान्तर्गतं प्रतिगृहकल्पनं द्वारोपद्वारयुतं भित्तिशालानेकवातायनादि सहितं वातादिप्रसरणयोग्यं प्रीष्मवर्षादिषु सर्वेष्वपि समयेषु तदन्तर्वासिनां सुखदायिविविधकल्पनरचनोपेतं युक्त्या शिल्पी कल्पयेदित्यर्थः । किश्च प्रथमोदितमहाप्रासादकल्पनेषु शालाषोडशकं जन्माधिष्ठानमोपानदृढद्वारादिभूपितं भद्रकल्पनयुतं वा तद्रहितं वा सर्वत्र मुखीकरणकल्पनोपेतं रचयेदि त्यर्थः । कल्पनाक्रमप्रतिपादनं सूक्ष्मदृष्ट्या ज्ञेयमिति समष्टिवाचकाओं बोध्यः॥
किञ्च परिपाट्याऽत्र प्रतिपादितभवनहर्म्यप्रासादाख्योत्तमकल्पनेषु मुखीकरणशालास्थापनालिन्दकल्पनाधिष्ठानसोपानादिरचनाक्रमलमणवाक्यविशदार्थस्तु तत्र तत्र स्थलान्तरे शिल्पकलादीपिकादिग्रन्थान्तरेषु च द्रष्टव्य इति । इति श्रीमदनन्तकृष्णभट्टार कविरचितायां प्रमाणबोधिन्याख्यायां
विश्वकर्मवास्तुशास्त्रव्याख्यायां भवनादिलक्षणनिरूपणं नाम
चतुर्दशोऽध्यायः ॥