________________
तत्रैव निलयः स्थाप्यो योधादीनां नृपालये ॥८॥
वराकनेन सहिता कूपकल्पनभाक्तथा । उत्तुङ्गभित्तिसंवीतवास्तुमीमकवारयुक् ॥९॥
पञ्जरावलिसंयुक्तमुपभित्त्यादिभाक्तथा।
किश्चैतादृशलक्षणान्वितदुर्गद्वारस्यान्तर्भागे पूर्वोक्तशैल्या जनवासार्हशालोपेता दुर्गवीध्येका स्थाया। किञ्च दुर्गभित्तश्च बहिःस्थले सर्वतश्चतुःपञ्चषदण्डप्रमाणकान्तरालिकभागे योधनिवेशनाहंशालाश्च प्रकल्पयेत् । तत्रापि विशेषतो मुखद्वारसमीप इति भावः । तत्रैव बहुविधरक्षेति केचित् ॥
किश्चैतादृशलक्षणान्वितद्वाराधिष्ठानोपेतेषु विंशतिकरमानमारभ्य द्वात्रिंशत्करमानाधिकेनौन्नत्येनोपेतासु दुर्गभित्तिषु तत्समीपवर्तिषु वा प्राकारभित्तिषु दिशावष्टसु समुचिते स्थले समयनिवेदकघण्टावादनस्थलं शोभादाादये क्रियमाण. दशाधिककूपाख्यकल्पनस्थलं भित्तिवारकाख्यं भित्तरुपरि पदे पदे मुखकरणरीत्या कल्पितक्षुद्रमुखकरणाख्येन कल्पनेन सहस्राधिकेन सहितं स्थलं च विविधनिर्माणजालेषु स्थापयेदित्यर्थः ॥
किञ्च तादृशक्षुद्रमुखकरणन्तु वर्तुलाकारं चापाकारं चतुरश्राकारं त्रिकोणाकारं भुजङ्गगमनाकारमित्यादिबहुविधरूपं सर्वत्रापि पारावतपञ्जरमनोहरं निर्माणं शिलया वा इष्टिकया