________________
२३१
परितः परिखाऽगाधा कर्तव्या नृपमन्दिरम् । चतुर्दण्डाद्यातिस्तु दशदण्डाधिका मता ॥ २ ॥ निम्नं तद्विगुणं प्रोक्तं पक्षयोर्मित्तिका दृढा ।
किन नृपप्रासाद सभीपस्थितस्यास्य दुर्गस्यायतिस्तु भूपदण्डचतुष्कप्रमाणमारभ्य दशदण्डाधिका कीर्तिता । कचिद्राजधानीयुद्धदुर्गादिस्थलेषु दशनृपदण्डाधिकायामकल्पनमप्यभ्युपगतमेवेति समयः 1 तश्च विंशतिदण्डावसानकमिति मतिः । सर्वथा सर्वेष्वपि वास्तुदुर्गेषु परिखाया यावन्मानं वैशाल्यं क्रियते तन्मानद्विगुणितप्रमाणं निम्नत्वं परिखायाः करणीयमिति नियमः ||
तत्रापि कचित्तन्मानद्विगुणित भागाष्टकं भागसप्तकं वा भागषट्कं वा भागपञ्चकं तालमित्येवमर्थचैतच्छाखानन्तर्यंवचनवैखर्या प्रतिभातीति शिल्पविदः । तर्हि प्रोक्तं करणीयमिति नियमवाक्यभङ्ग इति चेन्न । प्रायशः काचित्कत्वादिति स्वरसार्थपरामर्शनशीलाः । कथं वा तद्भूमिलंबनविषयद्वाराऽधिष्ठानविषयादिवत इत्यलम् ॥
किन तादृशागाध परिखाया अनिनभागे तलपार्श्वयोरतिदृढं भित्तिद्वयं कल्पनीयम् । तादृशभित्तिकल्पनेऽपि क्रमेणोपर्युपरि चिद्वै शाल्यवत्पार्श्वस्थ मृदादिनिरोधनचणदावत्वभिन्नत्वादिदोषहीन कल्पयेत् । तत्राप्यष्टसु वा दिशासु
जलाधार