________________
२२९
गान्धर्वे वारणस्थानं पुष्पके वाजिमन्दिरम् । भृङ्गराजकभागे च भिषक्शालादयो मताः ॥ १६ ॥ इति विश्वकर्म प्रणीते विश्वकर्म वास्तुशास्त्रे नृपप्रासादभूमानकथनं नाम
द्वादशोऽध्यायः॥ अपि चात्र किन्नरम्यान विहारस्थलं प्रमोदवर्धक कारयित्वा तवैव भागान्तरे कुन्दचम्पकाशोकादिलनापुष्पनिव है : पूगनागजम्बीरपनमरमालाम्रयकुलना रिफलादि फलवृतेश्च भरितमुद्यानञ्च स्थापयेत् । किञ्च गन्धर्व मागे गजस्थान, पुष्पदेवभाग वाजिबन्धनस्थानं च भृङ्गराज भागे भिषग्वाद्यकारलेखवाहकयामरक्षकादीनां राजसेवकानामालयादींश्च कल्पयदिति । अत्र गजाश्वस्थानन्तु भूपाल सम्पन्महिमादिस्फूर्तये राज्यलक्ष्मीविवृद्धये च कतिपयानामेवोत्तमवारणानामुत्तमवाजिनाञ्च स्थानमुक्तं, न तु तेषाम संख्येयानां सततवासस्थानामिका शाला कर्तव्येति प्राज्ञानां शिल्पविदा समय इति सङ्केपेण नृपप्रामादभूमानादिलक्षणमुक्तमिति भावः ॥ १६ ॥
इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां
विश्वकमवास्तुशास्त्रव्याख्यायां नृपप्रासादभवनादिलक्षणकथनं नाम
द्वादशोऽध्यायः॥