________________
२०५
महादुर्गसमोपेतं नलीकस्थानभीकरम् । युद्धभित्त्यङ्गणोपेतमन्तर्वा बहिरेव वा ॥४१॥ कोणाष्टकं कोणषट्कमथवा स्थलयोग्य कम् । छन्नमागैरनेकैश्च सोपानावलिभियुतम् ॥ ४२ ॥
लक्षणान्वितम ! पारखान्तरापेक्षयाऽत्यन्तमगाधया पारखया वैपुल्याधिक्ययुतया संयुतं स्थलं महा दुर्गमित्युच्यते । तादृशमहा. दुर्गेण समन्ततस्संवृतम । किञ्च तादृशकुड्यदुर्गम्योपरि रिपुसेनानिरासाय नलीकाद्यायुधस्थापनस्थलं कल्पनीयमित्यर्थः ॥
किश्च तादृशदुर्गभित्तेः बहि:स्थले वाऽन्तःस्थले वोभयत्र वा महाशाला वास्तुभूम्यनुगुणं स्थापनीया । तत्राप्येको नियमः । अन्तः कल्पिता शाला नानाजनवासार्हा । बहिः कल्पिता तु केवलं योधादियुद्धशीलानां निवेशार्थमिति विवेकः । किश्च तादृशशालाङ्गणं तु अष्टकोणषट्कोणभूमिकल्पितं वा समतलस्थित दुर्गाकारवद्वा करणीयमिति यावत ॥
किश्चास्य युद्धदुर्गस्य मुखद्वारमेकं वा मुखद्वारद्वयं मुखद्वार. चतुष्कं वा नृपेच्छया कार्यमिति भावः । किम्वात्र बहुद्वारकल्पनस्य समरादिसमयेषु भयंकरत्वादस्य दुर्गस्य मुखद्वारमेकमेवालमिति शिल्पविदः । तादृशमुखद्वारस्य च सुरङ्गादिकल्पनं सोपानपक्तिच्छादितं च करणीयम् । कुतः १ समरादिसमयहित