________________
अथ दुर्गलक्षणकथनं नाम ॥ दशमोऽध्यायः॥
दुर्गाणां स्थापनं प्रायो भूपानामात्मरक्षकम् । तस्माच्छिल्पिगणैः कार्य न तत्र नगरादिकम् ॥१॥ कचिद्यदि कृते तस्य निर्माणं रचयेत्क्रमात् । गिरिकाननभेदेन तद्द्वादशकमीरितम् ॥ २॥
तत्र प्रथमस्य गिरिदुर्गस्य लक्षणम् ॥ गिरिसानौ गिरेमध्ये मूर्ध्नि वा यत्प्रकल्प्यते । गिरिदुर्गमिति प्रोक्तं मुनिभिश्शास्त्रपारगैः ॥ ३ ॥
दशमोऽध्यायः ॥ अथेदानी दुर्गलक्षणकथनात्मकं दशमाध्यायमारभतेदुर्गाणां स्थापनमित्यादिना। तत्र तब वङ्गानादिदेशस्थलेषु दुर्गस्थापनं तावत्प्रायशो भूपालादीनां, क्षत्रबन्धूनामन्येषाञ्च योधादीनां रक्षणार्थमेव । तस्मात्तादृशदुर्गेषु पद्मादिपुरलक्षणवत् प्रतालिकाराजवीच्याद्युपेतं नगरं शिल्पी न स्थापयेत् । तेषु पर्वतादिदुर्गेषु तावत्तादृशभूवैशाल्याचसंभवादिति भावः । तथापि कचिगेषु क्षुद्रपुरादिकं कल्प्यम् । तच्च स्थपत्यादयो यथाक्रम स्थापयेयुरिति मर्यादा ॥
तानि च दुर्गाणि : गिरिवनादिभेदेन द्वादशसंख्यानि