________________
११७
मानदण्डमुखान् शिल्पी कल्पनात्पूर्ववासरे ॥ ३८ ॥
यथाविध्यर्चयेद्गन्धपुष्पाद्यैस्तत्पतीनपि । नगरारम्भसमये शकुनं वीक्ष्य सर्वतः ।। ३९ ।।
जय शब्द मुखैर्विप्रैर्वाचयेत्स्वस्तिवाचनम् । दिवसे मिले प्रातः कल्पये नगरं नवम् ॥ ४० ॥
तत्र प्रथमस्य पद्मनगरस्य लक्षणम् ॥
पद्मस्य वास्तुभूमिस्तु चतुरश्रा समस्थला | सदातोया शैवालनीतीरस्था वा विशेषतः ॥ ४१ ॥
लयेषु न दोषायेति मतिः । नगरपुरग्रामभवनादिनिर्माणाय निर्दिष्टदिनात्पूर्वमेव शिल्पी स्वायुधतदधिपतींश्च यथाविधि गन्धपुष्पाद्यैरभ्यर्च्य तादृशनिर्माणारम्भसमये सर्वतो दिक्षु शुभशकुनं च निरीक्ष्य ब्राह्मणैस्स्वस्तिवाचनं पाठयित्वा मेघाच्छादन वृष्टिपातादिकालुष्यरहिते विमले शुभे दिने पद्मादिनगरनिर्माणं कुर्यादिति समष्ट्यर्थो बोध्यः ॥ ४० ॥
अथाद्यस्य पद्मनगरस्य
लक्षणमाह
पद्मस्येति ।
पद्मनगरवास्तु भूमिस्तु चतुरश्रा निम्नत्वोन्नतत्ववर्जिता भवितव्या । एतादृशलक्षणान्वितोत्तम भूमिस्तावद्यदि
सततजलनदीतीरगता
,
भवेत् तादृशलक्षणान्विता च लभ्येत यदि, तदात्यन्तं जीवानां सुखप्रदेति भावः । एतावता वाक्येन नदीतीरगतायामुत्तमवास्तु
-