________________
१०९
अथ सूत्रादिमानकथनम् ॥
ऊर्ध्वमानमधोमानं भूमिमानश्च वर्तुलम् । तिर्यमानश्च मुनिभिर्मानान्युक्तानि पञ्चधा ॥ १८ ॥
--
अस्य किलाध्यायस्यारम्भे प्रतिपादितानां बहूनां नगराणां उपरि च प्रतिपादयिष्यमाणानां अनेकविध शिल्पकार्याणां अतिव्याप्त्यादिरहितं तत्तलक्षणं वक्तुमादौ सूत्रादिमान सङ्केतार्थक पदादिविषयमाह - ऊर्ध्वमानमित्यादित्रयोविंशतिश्लोकैः ॥ द्रव्यसङ्ग्रहणाध्यायोक्तद्रव्यादिष्वन्येषु च कर्तव्यानां सकलशिल्पकार्याणां मानं तु पश्चविधमिति शास्त्रज्ञैर्मुनिभिरुदीरितम् । तद्यथा - ऊर्ध्वमानम् अधोमानम, भूमिमानम्, वर्तुलमानम, तिर्यमानमिति । अस्य विशदार्थस्तु - भित्तिस्तम्भविमानप्राकार गोपुरेषु, अन्येषु मनुष्यालयभित्तिगवाक्षादिषु चोपर्युपरि यन्मानं क्रियते तदूर्ध्वमानमिति । भूलंबन (Vaise) वापीकूपतटाकजलाशयादिषु यन्मानं तदधोमानमिति । निम्नत्वोन्नतत्वरहितवास्तुभूमिषु सर्वास्वैन्द्रीदिशमारभ्य वारुणदिग्गतं वा, दक्षिणाशामारभ्य कौबेरीदिग्गतं वा गत्सूत्रप्रसारादिमानं क्रियते तद्भूमानमिति । वर्तुलमानं तावद्वास्तु भूमिं परितो मण्डलाकारेण वा चतुरश्रेण वा गमनयोग्यं मानम् । तिर्ययानन्तु हर्म्य पटलावरणाद्यर्थं कल्पितासु भित्तिषु वा,
8. s. 14 a.
"