________________
अथ ग्रामलक्षणकथनं नाम सप्तमोऽध्यायः॥
देवतानां नराणाञ्च गजगोवाजिनामपि । निवासभूमिश्शिल्पज्ञैर्वास्तुसंज्ञमितीयते ॥ १ ॥ वास्तुभूविविधा ख्याता स्थलभेदात्क्वचित्क्वचित् ॥ २॥ चतुरश्रायता भूमिवर्तुला च त्रिकोणगा। मर्दलाकारवत्येषा प्रशस्ता वास्तुकमणि ॥३॥ निम्नोन्नता च या भूमिश्शिरोहीना च भूरपि ।
॥ सप्तमोऽध्यायः॥ अथ समग्रग्रामलक्षणात्मकं सप्तमाध्यायमारभते-देवतानामित्यादिना । देवनृपगवादीनां वासभूमिर्वास्तुसंज्ञेति शिल्पवेत्तारः । तादृशवास्तुभूमिस्तावत् तत्र तत्र स्थलभेदेन बहुधा ख्याता । तथा चतुरश्रा वास्तुभूमिः, आयता वास्तुभूमिः, वर्तुलाकारा वास्तुभूमिः, त्रिकोणाकारा वास्तुभूमिः, मर्दलाकारा वास्तुभूमिरिति मुख्यतया पञ्चभेदा गण्यन्ते । अत्र त्रिकोणाकारा भूमिर्न वास्तुयोग्येति केचिन् । नगरादिषु सा च न दोषायेत्यन्ये । तथा निम्नोन्नता भूमिरत्यन्तं निम्न भूमिश्चात्यन्तमुन्नत. भूमिश्च न निर्माणाऱ्या भवतीति स्फुटमेव ॥