________________
२१
सूत्रप्रसारमानेन शुद्धां प्राचीं समाश्रयेत् । पुरारम्भे गृहारम्भे गोपुरारम्भ कर्मणि ॥ ३१ ॥
गर्भगृहविमानादिमद्वास्तुषु शुभावहः । शिल्पिनां माननं शस्तं हेम भूषादिभिश्शुभैः ॥ ३२ ॥
स्थूपिस्थापन काले च प्राकारस्थापने तथा । प्रासादभवनारम्भे वापीकूपादिकेषु च ॥ ३३ ॥ गृहप्रवेशकाले च स्वस्तिघोषश्शुभावहः । दिशां कोणास्तु चत्वारो न शस्ता आयलक्षगे ||
स्वस्तिपठनादिकं सर्वमपि श्रेयस्करमिति बोध्यम् ॥
गृहभवनप्रासादादिनिर्माणे, नगरनिर्माणे, गोपुरस्थापने, गर्भगृहस्थापन, विमाननिर्माणेऽन्यस्मिन्नपि मुख्यवास्तुनिर्माणकर्मणि अवश्यं शङ्कुस्थापनवशात् शुद्धा प्राची प्राह्येति सिद्धान्तः । एतादृशवास्तुनिर्माणसमयेषु धनकनकभूषावस्त्रादिभिरिशल्पिनो मानयेदिति, स्थूपिस्थापने, प्राकारस्थापने, प्रासा - दादिस्थापने च राज्ञां नानादानानि शुभावहानीति च सिद्धान्तः । आग्नेयनिर्ऋतिवायव्यैशानाख्यदिशां कोणाश्चत्वारोऽपि आयादिलक्षणे न शुभफलप्रदाः । तस्मात्सर्वप्रयत्नेनापि पूर्वोक्तरीत्या शङ्कुस्थापनकरणे स्थपत्यादीनां सायेन युक्त्या च शुद्धा प्राची