________________
सुमेधा विक्रमी स्वामी दुराधर्षों निरुत्सुकः । विशिष्टः शिष्टमक शिष्टः प्रत्ययः कामनोऽनघः ॥शा क्षेमी क्षेमङ्कराऽक्षय्यः क्षेमधर्सपतिः क्षमी। . अग्राह्यो ज्ञाननिग्राह्यो ध्यानगम्यो निरुत्तरः ॥६॥ सुकृती धातुरिज्याहः सुनयश्चतुराननः । श्रीनिवासश्चतुर्वक्त्रश्चतुरास्यश्चतुर्मुखः ॥७॥ सत्यात्मा सत्यविज्ञानः सत्यवाक्सत्यशासनः । सत्याशीः सत्यसन्धानः सत्यः सत्यपरायणः ।।८।। स्थेयान्स्थवीयादीयान्दवीयान् दूरदर्शनः । अणोरणीयाननणुर्गुरुराधो गरीयसा ॥॥ सदायोगः सदाभोगः सदातृतः सदाशिवः । सदागतिः सदासौख्यः सदाविद्यः सदोदयः ॥१०॥ सुघोपः सुमुखः सौम्यः सुखदः सुहितः सुहृत् । सुगुप्तो गुष्ठिभृद् गोप्ता लोकाध्यक्षो दमीश्वरः ॥११॥
इति असस्कृतादिशतम् ॥७॥ अर्घम् । बृहद्वृहस्पतिर्वाग्मी वाचस्पतिरुदारधीः । मनीषी धिषणो धीमांञ्छेमुषीशो गिरांपतिः ॥१॥ नैकरूपो नयोतुङ्गो नैकात्मा नकधर्मकृत् । अविज्ञेयोऽप्रतात्मा कृतज्ञः कृतलक्षणः ॥२॥ ज्ञानगर्भो दयांगों रत्नगर्भः प्रभास्वरः । पद्मगर्भो जगद्गर्भो हेमगर्भः सुदर्शनः ॥३॥ लक्ष्मीयांत्रिदशाध्यक्षो दृढीयानिन ईशिता । मनोहरो मनोज्ञाझो धीरो गम्भीरशासनः ॥४॥ धर्मयपो दयायागो धर्मनेमिर्मुनीश्वरः । धर्मचक्रायुधो देवः कर्महा धर्मघोषणः ॥शा
२३