________________
क्षतिं मनः-शुद्धि- विधेरतिक्रमं व्यतिक्रमं शील वृतेर्विलंघनम् । प्रभोऽचितारं विषयेषु वर्तनं वदन्त्यनाचार मिहातिसक्तताम् ॥ यदर्थ मात्रा- पदवाक्य- हीनं मया प्रमादाद्यदि किञ्च नोक्तम् । तन्मे क्षमित्वा विदधातु देवी सरस्वती केवलबोध-लब्धिम् ॥ वोधिः समाधिः परिणाम-शुद्धिः स्वात्मोपलब्धि: शिव-सौख्य-सिद्धिः । चिन्तामणि चिन्तित वस्तु दाने
त्वां वन्द्यमानस्य ममास्तु देवि ॥ ११ ॥ यः स्मर्यते सर्व - मुनीन्द्र-वृन्दैर्यः स्तूयते सर्वनरामरेन्द्रः । यो गीयते वेद-पुराण-शास्त्रैः स देव-देवो हृदये ममास्ताम् ॥ यो दर्शन -ज्ञान- सुख-स्वभावः समस्त-संसार - विकार चाह्यः । समाधिगम्यः परमात्म-संज्ञः स देव-देवो हृदये ममास्ताम् ॥ निपूदते यो भव- दुसजालं निरीक्षते यो जगदन्तरालम् । योऽन्तर्गतो योगि निरीक्षणीयः स देव-देवो हृदये ममास्ताम् ॥ विमुक्ति-मार्ग-प्रतिपादको यो यो जन्म-मृत्यु- व्यसनाद्यतीतः । त्रिलोक-लोकी विकलो कलङ्कः स देव-देवो हृदये ममास्ताम् ॥ कोडीकृताशेष-शरीरि-वर्गा रागादयो यस्य न सन्ति दोषाः । निरिन्द्रियो ज्ञानमयोऽनपायः स देव-देवो हृदये ममास्ताम् ॥ यो व्यापको विश्वजनीनवृत्तेः सिद्धो विबुद्धो धुत-कर्म-बन्धः । ध्यातो धुनीते सकलं विकारं स देव-देवो हृदये ममास्ताम् ॥