________________
दृष्टं जिनेन्द्रभवनं मणि-रत्त-हेम
सारोज्ज्वलैः कलश- चामर-दर्पणाद्यैः ।
सन्मंगलैः सततंमष्टशत-प्रभेदै
विभ्राजितं विमल - मौक्तिक- दामशोभम् ॥ ६ ॥
दृष्टं जिनेन्द्रभवनं वरदेवदारु
कर्पूर- चन्दन - तरुष्क-सुगन्धिधूपैः । मेधायमानगगने पवनाभिवात
चञ्चञ्चलद्विमल- केतन - तुङ्ग- शालम् ॥ ७ ॥
दृष्टं जिनेन्द्रभवनं धवलातपत्र
च्छाया-निमग्न-तनु-यक्षकुमार-वृन्दैः । दोधूयमान- सित - चामर - पंक्तिभासं
भामण्डल-द्युतियुत-प्रतिमाभिरामम् ॥ ८ ॥
दृष्टं जिनेन्द्रभवनं विविधप्रकार
पुष्पोपहार - रमणीय- सुरत्नभूमिः । नित्यं वसन्ततिलकश्रियमादधानं
सन्मंगलं सकल- चन्द्रमुनीन्द्र- वन्द्यम् || ६ |
दृष्टं मयाद्य मणिकाञ्चन-चित्र- तुङ्ग
सिंहासनादि - जिनबिम्ब-विभूतियुक्तम् । चैत्यालयं यदतुलं परिकीर्तितं मे
सन्मंगलं सकल- चन्द्रमुनीन्द्र- वन्द्यम् ॥१०॥
इति दृष्टाष्टकम्