________________
जैन - शिलालेख - संद
स्याद्वाद-वाराकर-शीतभानोः सिद्धान्त - देवस्य मनोज्ञ - शिष्यः । अभूदसौ बुळ्ळप-गौड़-नामा चारित्र वाराकर-शीतरोचिः ॥ बिनेन्द्र-गन्धोदक-पूत-गात्री बिनाचना- पुष्प - निवास - मूर्द्धा । बिनाचना-चन्दन- कान्त-भालो बिनेन्द्र-मन्त्रालय - मानसाब्नः ॥ नित्यं विशुध्या कृत-धर्म-चक्रो नित्यं ललाटे कृत-धर्म- चकः । नित्यं मुदा पालित देहि चको नित्यं यश:- 9 - पूरित-भूमि-चक्रः ॥ दिनेदिने सम्भृत- धम- बुद्धिर् दिनेदिने वर्द्धित-दान- वृद्धिः । दिनेदिने वृत्त दयाभिवृद्धिर् दिनेदिनेवृत्त - हिरण्य- वृद्धिः || अमी गुणात्सन्त्यखिळे जनेऽपि सम्यक्त्व - रत्नाकरता तु नैव । सा बुळ्ळ-गौडे खलु सत्यमस्ति कौवा ततो वर्णयति प्रभुं तम् ॥
तत्पुत्रस्तत-सद्गुण-स्तुत- बिनस्सिद्धान्त-नाम्नो मुनेस् सिद्धान्तोद्भट-वाद्धि-वर्द्धन- विधोश्शिष्यः सुपुष्यद्दयः । सत्याब्जाकर- भास्करः प्रियकरश्चारित्र वाराकरः । श्री- पूर्णो भुवि गोपण-प्रभुरभूत् सम्यक्त्व-रत्नाकरः || सिद्धान्तदेव - गुरु पाद-पयोब-भक्तः ।
श्री-बुळ्ळ-गौड़-हृदयाम्बुज-भानु-बिम्बः ।