________________
भारङ्गीके लेख
४४E
ध्वक्तं श्री-जयकीर्ति-वृत्तमशकन् नान्यः कथं मादृशः ।। यम-नियम-समेतो ध्यान-दग्धाघ-बातो जप-शत-विधि-तुष्टोऽभूदनुष्ठाननिष्ट: अनुगत-गुण-जालो वर्द्धितात्मीय-शीलो भुवि किल बयकीर्तिश्चारु-मूर्तिस्सु-कोतिः ।। टोक्षा-स्वीकारकालागत-नन-निवहे जात-तोरात् प्रभूतात् कीर्ति कुर्वत्यनूनं जय-जय-वचसा यस्य नुन्नाखिलार्त्तिम् । स नामास्यैव नामाभवदिति भुवने ख्यातिरासीदितीदम् जाने वक्तं तदीयानपगत-गणनान्नैव जाने गुणौघान् । तन्छिष्यः श्रुत-वार्द्धि-बर्द्धन-विधुस्सिद्धान्त-पारङ्गत: सिद्धान्तामिध-शुद्ध-नाम-सहितोऽभूछद्ध-विद्योद्यमः । बौद्धायुद्धत-वादि-बद्ध-नमनः सिद्धस्तुतौ तत्परस सिद्धेशश्च विशुद्ध-बुद्धि-सहितो हृद्योऽनवद्यो भुवि ।। यद्-वाणोमय-दर्पणे शुचि-गुणे धी-भस्म-सन्दीपनप्रक्षीणावरणादि-कल्मष-गणे सत्यं जगदपणे । भव्या-वीक्ष्य निज-स्वरूपममलं रत्नत्रयाकल्पकम् स्वीकृत्यामृतकामिनी निज-वशे कुर्वन्ति शोघ्र किल ॥ सिद्धान्तदेव-कर-पिञ्च्छमितीव भाति ॥ कि वर्णाभरणैस्सुवर्ण-रचितः किं मौक्तिकैनिम्मितैः किं नानामणि-निम्मितैरपि वरैर्मत्वेति मुक्तत्वा पुनः । सिद्धान्त-व्रतिपस्य मानसहितं वाणों सुवर्णोज्ज्वलाम् कर्णाकल्प इतीव शाश्वतिमां कुर्वन्ति सर्वे जनाः।। सांख्याः किंकरतामिताः किल पुनर्योगा नियोग किल चार्वाकाच वराकतां किल गता बौद्धाश्च दुर्बुद्धिताम् । भाडो भ्रष्ट-मतिः किलाभवदिमं प्राभाकरं वेत्ति कः तस्मात् को मदमातनोति पुरतस्सिद्धान्त-वादीशिनः ॥ २६