________________
विजयनगरके लेख
४११
तस्मिन् शासति राजेन्द्र चतुरम्बुधिमेखला । धरामचरिताशेषपुरातनमहीपतौ ॥ [१८] आसीत्तस्य महीनानेः शक्तित्रयसमन्वितः । कुलक्रमागतो मंत्री चैवदंडाधिनायकः ॥ [१६] द्वितीयमंतःकरणं रहस्ये बाहुस्तृतीस्समरांगणेषु । भीमान्महा चैच [५] दंडनायो जागर्ति कार्ये हरिभूमिभर्तु : ।। [२०] तस्य श्रीचैचदंडाधिनायकस्यो [ जि ] तश्रियः । आसी दिगदंडेशो नंदनो लोकनन्दनः ।। [२१] न मूर्ती नामूर्ती निखिलभुवनाभोगिकतया
शरद्राजद्राकाविटनिटिलनेत्रद्युतितया । प्रभूता कीत्तिस्सा चिरमिरुगदण्डेश कथय
त्यनेकांताकांतात्परमिह न किञ्चिन्मतमिति ।[२२] सद्वंशजोपि गुणवानपि मार्माणाना
__माधारतामुपगतोपि च यस्य चापः । नम्रः पराविनमयभिरुगक्षितीश
स्योच्च नाय रपतु शिक्षयतीव नीतिम् ॥ [ २३ ] हरिहरधरणीशप्राज्यसाम्राज्यलक्ष्मी
कुवलयहिमधामा शौर्यगाम्मीर्यसीमा । इरुगपधरणीशास्सहनन्यायंवर्य
प्रपदन [लि ] नभृगस्स प्रतापैकभूमिः ॥ [२४] स्वस्ति शकवर्षे १३०७ प्रवर्तमाने कोषनवत्सरे फाल्गुनमासे कृष्णपचे द्वितीयायां तिथौ शुक्रवारे ॥
अस्ति विस्तीर्णकर्णाटघरामण्डलमध्यगः । विषयः कुन्तको नाम्ना भूकांताकुंतलोपमः ॥ [२५] विचित्ररत्नाच त्रास्ति विजयाभिधं । नगरं सौपसन्दोह दशिताकाण्डचन्द्रिकं ॥ [२६]