________________
जैन - शिलालेख - संग्रह
भाति भट्टारको धर्म्मभूषणो गुणभूषणः । यद्यशः कुसुमामोदे गगनं भ्रमरायते ॥ [७] शिष्यस्तस्य मुनेरासीदनग्गलत शेनिधिः । श्रीमानमरकीर्याय देशिकाग्रेसरः शमी ॥ [ ८ ] निखपदमपुटकबाट घटयित्वानिलनिरोध [ तो ] हृदये । अविचलितबोधदापं तममरकर्त्तिं भजे तमोहरणम् ॥ [ ६ ] केपि स्वोदरपूरणे परिणता विद्याबिहीनांतरा योगीशा भुवि संभवंतु बहवः किं तैरनं तैरिह | धीर: स्कूति दुर्जयातनुमदध्वंसी गुणैरुज्जितेराचार्य्योमरकीत्तिशिष्यगणभृच्छ्री सिंहनन्दो व्रती ॥ [ १० ] श्रीधर्मभूषोजन तस्य पट्टे श्री सिंहनंद्यागुरास्तधर्म्मा । भट्टारकः श्रीजिनधर्म्महम्यंस्तंभायमानः कुमुदेन्दुकीत्तिः ॥ [ ११ ] पट्टे तस्य मुनेरासीद्वर्द्धमान मुनोश्वरः । श्री सिंहनंदियोगींद्रचरणांभोवषट्पदः ।। [१२]
४१८
शिष्यस्तस्य गुरोरासीद्धर्मभूषणदेशिकः । भट्टारकमुनिः श्रीमान् शल्यत्रयविवज्जितः ॥ [ १३ ] भट्टारकमुनेः पादावपूर्वकमले स्तुमः ।
यद मुकुलीभावं यांति राजकराः परं ॥ [ १४ ] एवं गुरुपरंपरायामविच्छेदेन वर्त्तमानायांआसीदसीममहिमा वैशे यादवभूभृतां [] अखंडितगुणोदारः श्रीमान् बुकमहीपतिः [१५
C
उदयद्भूभृतस्तस्माद्गाबा हरिहरेश्वरः । कलाकलापनिलयो विधुः क्षीरोदधेखि ॥ [ १६ ] यस्मिन् भर्त्तरि भूपाले विक्रमाक्रांतविष्टपे । चिराद्राजन्वती हंत भव [ त्येषा ] वसुंधरा । [ १७ ]