________________
देवरहल्लिका लेख
१०९ [जिस समय इस पृथ्वीपर श्री-पुरुष महाराज राज्य कर रहे थेअरहि...... के पुत्र सिंगम् के (जिम) दीक्षा लेनेके बाद, (उसकी मां) अरहितिने कुडलर किलेके मडि-बोडेके द्वारा शासित प्रदेशमें भूमिदान किया।]
{ EC, III, Mysore tl., no. 25.]
१२१ देवरहल्लि-संस्कृत तथा कन्नड़।
शक सं० ६९८७७६ ई. [ देवरहलि ( देवलापुर प्रदेश )में, पटेल कृष्णय्यके साम्रपत्रोंपर ]
(IN) स्वस्ति जितं भगवता गतघनगगनामेन पद्मनाभेन श्रीमजाह्नवेयकुलामलव्योमावभासनभास्करः स्वखङ्गाहारखण्डितमहाशिलास्तम्भलब्धबलपराक्रमो दारुणारिगणविदारणोपलब्धव्रणविभूषणभूषितः काण्वायन-सगोत्रः श्रीमत्कोङ्गणिवर्मधर्ममहाधिराजः तस्य पुत्रः पितुरन्वागतगुणयुक्तो विद्याविनयविहितवृत्तिः सम्यक्प्रजापालनमात्राधिगतराज्यप्रयोजनो विद्वत्कविकाञ्चननिकषोपलभूतो नीतिशास्त्रस्य वक्तृ-प्रयोक्तृकुशलो दत्तकसूत्रवृत्तेः प्रणेता श्रीमान् माधवमहाधिराजः तत्पुत्रः पितृपैतामहगुणयुक्तोऽनेकचातुईन्तयुद्धावाप्तचतुरुदधिसलिलास्त्रादितयशः श्रीमद्धरिवर्ममहाधिराजः तस्य पुत्रो द्विजगुरुदेवतापूजनपरो (IIa) नारायणचरणानुध्यातः श्रीमान् विष्णुगोपमहाधिराजः तत्पुत्र: त्र्यम्बकचरणाम्भोरुहरजःपवित्रीकृतोत्तमाङ्गः स्वभुजबलपराक्रमक्रयक्रीतराज्यः कलियुगबलपङ्कावसन्नधर्मवृषोद्धरणनित्यसन्नद्धः श्रीमान् माधवमहाधिराजः तत्पुत्रः श्रीमत्कदम्बकुलगगनगभस्तिमालिनः कृष्णवर्ममहाधिराजस्य प्रियभागिनेयो विद्याविनयातिशयपरिपूरितान्तरात्मा निरवग्रहप्रधानशौर्यो विद्वस्तु ? (विद्वत्सु ) प्रथमगण्यः श्रीमान्