________________
अल्मका लेख
१०६
अल्तेम ( जिला कोल्हापुर ) संस्कृत | [ शक ४११ = ४८० ई० ]
पहला पत्र |
स्वस्ति || जयत्यनन्तसंसारपारावार कसेतवः महावीराहतः पूताश्चरणाम्बुजरेणवः ||
८५
श्रीमतां विश्व-विश्वम्भराभिसंस्तूयमानमानव्य सगोत्राणां हारीतिपुत्राणां सप्तलोकमातृभिस्सप्तमातृभिरभिवर्द्धितानां कार्त्तिकेयपरिरक्षणप्राप्तकल्याणपरम्पराणां भगवन्नारायणप्रसाद समासादितवराहलाञ्छनेक्षणक्षणवशीकृताशेष महीभृतानां (भृताम् ) चालुक्यानां कुलमलंकरिष्णोः ॥ स्वभुजोपार्जितवसुन्धरस्य निजयाश्रवणमात्रेणैवावनतराजकस्य कीर्तिप ताकावभासितदिगन्तरालस्य जयसिंहस्य राजसिंहस्य (1) सूनुस्सूनृत - बागनवस्तदानाद्रकृतकरस्सुरराज इत्र प्रशमनिधिस्तपोनिधिरिव दृप्तवैरिषु प्राप्तरणरागो रणरागोऽभवत् [II] तस्य चात्मजे श्वमेधना ( ० मेघाव ) भृत (थ) स्नान पवित्रीकृतगात्रे प्रणतपरनृपतिमकुटतटघटितहट मणिगणकिरणवार्द्धाराधीतचारुचरणकमलयुगले चित्रकण्ठाभिधानतुरङ्गमकण्ठीरवेणोत्सारितारातिस्तम्भेरममण्डले वर्णाश्रम सर्व्वधर्म्मपरिपालनपरे गङ्गासेतु (:) मध्यवर्तिदेशाधीश्वरे शक्तित्रयप्रवर्द्धितम्राज्यसाम्राज्ये गङ्गायमुनापालि
दूसरा पत्र; पहली ओर ।
वजदडक्कादिपश्वमहाशब्दचिह्ने करदीकृतचोल-चेर-केरल-सिंहलकलिंगभूपाले दण्डितपाण्डयादिमण्डि (ण्ड ) लिके अप्रतिशासने 'सत्याश्रय' -श्री- पुलकेश्यभिधानपृथिवीवल्लभमहाराजाधिराजे पृथिवीमेकातपत्रं शासति सति [ ॥ ] राजा रुन्द्रनीलसैन्द्रकवंशशशांकायमानः