________________
देवगिरिका लेख
देवगिरि-संस्कृत।
-[ ? - विजयत्रिपवते खामिमहासेनमातृगणानुद्याताभिषिक्तस्य मानव्यसगोत्रस्य प्रतिकृतखाध्यायचर्चापारगस्य आदिकालराजर्षिबिम्बानां आश्रितजनाम्बानां कदम्बानां धर्ममहाराजस्य अश्वमेधयाजिनः समरार्जितविपुलैश्वर्यस्य सामन्तराजविशेषरत्नसुनागजिनाकम्पदायानुभूतस्य (?) शरदमलनभस्युदितशशिसदृशैकातपत्रस्य धर्ममहाराजस्य श्रीकृष्णवर्मणः प्रियतनयो देववर्मयुवराजः स्वपुण्यफलामिकांक्षया त्रिलोकभूतहितदेशिनः धर्मप्रवर्त्तनस्य अर्हतः भगवतः चैत्यालयस्य भग्नसंस्कारार्चनमहिमार्थ यापनीय [स] वेभ्यः सिद्धकेदारे राजमानेन (?) द्वादश निवर्त्तनानि क्षेत्रं दत्तवान् योस्य अपहर्ता म पंचमहापातकसंयुक्तो भवति योस्याभिरक्षिता स पुण्यफलमश्नुते (1) उक्तं च-बहुभिर्वसुधा भुक्ता राजभिस्सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तथा (2) फलं ॥ अद्भिर्दत्तं त्रिभिर्युक्तं सद्भिश्च परिपालितं । एतानि न निवर्तन्ते पूर्वराजकृतानि च ।
स्वं दातुं सुमहन्छक्यं दु (?):ख (म) न्यार्थपालनं । दानं वा पालनं वेति दानाच्छेयोनुपालनम् ।। खदत्तां परदत्तां वा यो हरेत वसुन्धरां । पष्टिवर्षसहस्राणि नरके पच्यते तु सः ॥ श्रीकृष्णनृपपुत्रेण कदम्बकुलकेतुना । रणप्रियेण देवेन दत्ता भूमिस्त्रिपर्वते ।। दयामृतसुखाखादपूतपुण्यगुणेप्सुना । देववम्मैकवीरेण दत्ता जैनाय भूरियम् ॥