________________
जैन- शिलालेख -संग्रह
स्वस्ति जितं भगवता गतघनगगनाभेन पद्मनाभेन [II] श्रीमजाहबीय कुलालव्योमावभासनभास्करः खखङ्गैकप्रहारखण्डितमहा शिलास्तम्भलब्धबलपराक्रम दारुणारिगणविदारणोपलब्धत्रणविभूषणविभूषितः कण्वायनसगोत्रः श्रीमान् कोङ्गणिवर्म्मधर्म्ममहाराजाधिराजपरमेश्वरश्रीमाधवप्रथमनामधेयः ॥ तत्पुत्रः पितुरन्वागतगुणयुक्तो विद्याविनयविहितवृत्तः सम्यक्प्रजापालनमात्राधिगतराज्यप्रयोजनो विद्वत्कविकाश्चननिकषोपलभूतो नीतिशास्त्रस्य वक्तृप्रयोक्तृकुशलो दत्तकसूत्रवृत्तेः प्रणेता श्रीमन्माधव महाराजाधिराजः ॥ तत्पुत्रः पितृपितामहगुणयुक्तो (S) नेकचतुर्द्दन्तयुद्धावातचतुरुदधिसलिलाखादितयशः श्रीमद्ध रिवमहाराजा
धिराजः ॥
अपिच ॥ वृत्त |
आसीज्जगद्गहनरक्षणराजसिंहः
क्ष्मा मण्डलाब्जवन मण्डनराजहंसः । श्रीमारसिंह इति बृंहितबाहुकीर्त्ति - स्तस्यानुजः कृतयुगक्षितिपालकीर्तिः ॥
आदेशाद्देवचोलान्तकधरणिपतेर्गंगचूडामणिस्त्वां वेगादभ्येति योद्धुं त्यज गजतुरगव्यूहसन्नाहदर्थम् । गङ्गामुत्तीर्य गन्तुं परबलमतुलं कल्पयेत्पाप दूतैविज्ञप्तं गुर्जराणां पतिरकृति तथा यत्र जैत्रप्रयाणे || पद्माम्भोरुहभृङ्गभृत्यभरणव्यापारचिन्तामणिः
संत्रासग्रह विह्वलीकृतरिपुक्ष्मापालरक्षामणिः विद्वत्कण्ठविभूषणीकृतगुणप्रोद्भासिमुक्तामणिदेवस्सज्जनवर्णनीयचरित श्रीगङ्गचूडामणिः ॥