________________
जैन - शिलालेख संग्रह
तदनु विजयादित्यस्तस्य प्रियतनयो महानधिक नदस्सत्य-त्याग - प्रताप - समन्वितः । परहृदयनि [ ]भेदी नाम्नैव कोल्लविगण्ड-भूपतिरकृत षण्मासान् राज्यन्नयस्थितिसंयुतः ॥
तस्याप्रसूनुरपराजितशक्तिरम्मराजः पराजितपरावनिराजराजिः । राजा भवद्विदितराज महेन्द्रनामा वर्षाणि सप्त सरणिः करुणारसस्य ॥
तस्यात्मज विजयादित्यबालमुच्चाट्य श्रीयुद्धमल्लात्मजस्ता पराजो मासमेकमरक्षीत् ॥ तमाहवे विनिर्जित्य चालुक्यभीमतनयो विक्रमादित्यो विक्रमेणाक्रमे निक्षिप्य नत्र मासानपालयत् ॥ ततो युद्धमल्लतालप - राजाग्रजन्मा सप्त वर्षाणि गृहीत्वाऽतिष्ठत् ॥
तत्रान्तरे विदितको गण्ड सूनो
द्वैमातुरो विनुत- राजमहेन्द्र-नाम्नः
भीमधिपो विजितभीमबलप्रतापः
प्राचीं दिशं विमलयन्नुदितो विजेतुम् ॥ श्रीमन्तं राजमय्यन्-धळा-मुरुन्त (त) रनू तातबिकि प्रचण्ड बिज्जं स[ज्जं च] युद्धे बलिनमतितरामय्यपं भीममुप्र दण्डं गोविन्द राज - प्रणिहितमधिकं चोळपं लोवबिकिं विक्रान्तं युद्धमल्लं घटितगजवटान् सन्निहत्यैक एव ॥ भीतानाश्वासयन् सच्छरणमुपगतान् पालयन् कण्टकानुत्सन्नान् कुर्वन् सुगृहन् करमपरभुवो रञ्जयन् खं जनौघं ।