________________
२२२
जैनग्रन्थ-प्रशस्तिसंग्रह
१७०. हसिद्धचक्रपूजा (बुध बीरु)
आदिभागः
श्रनन्तानन्तसौखाढ्य सिद्धचक्रं प्रणम्य 1 श्रीवृहत्सिद्धचक्रस्य विधिं वच्ये विधानतः ॥ १ ॥
अन्तभाग :
वेदाष्टवाणशशि-संवत्मरविक्रमनृपाद्वहमाने । रुहितासनाम्नि नगरे बर्बर - मुगलाधिराज -सद्राज्ये ॥ १॥ श्रीपार्श्व चैत्यगेहे काष्ठासंघे च माधुरान्वयके । पुष्करगणे बभूव भट्टारकमणिकमलकोर्त्याह्नः ॥२॥ तत्पकुमुदचन्द्रो मुनिपतिशुभचन्द्रनामधेयोऽभूत् । तत्पट्टाब्जविकासी यतिराट् यशसेन इति कथितः ॥३॥ तच्छिक्षणीह जाता सच्छील- तरंगिणी महावतिनी । राजश्रीरिति नाम्नी संयमनिलया विराजते जगति ||४|| तदाता मुनिदाने श्रथेोनृप इति विभासते सुतराम् । श्रीनयर सीह नाम्ना पद्मावतिपुरवाल इति भाति ॥५॥ तत्पुत्रः सुपवित्रो विद्याविनयाम्बुधि. सुधी धीरः । जिनदासनामधेयो विद्वज्जनमान्यतां प्राप्तः ||६|| प्रोतवंशजातस्तोत्साधोस्तूद्भवो मतिमान |
हेमचन्द्र शिष्यो वीरु नामा बुधश्चास्ते ॥७॥ बुजिनदास-निदेशान् वीरुबुधश्वित्रबुद्धि-विभवेन । श्रीसिद्धचक्र यंत्र, ब्ध्वा पाठं व्यरीरचत्सुगमम् ||८|| यः पठति लिखति पूजां करोति कारयति सिद्धचक्रस्य । सुर- मनुज- सुखं भुक्त्वा स याति मोक्षं भवैः कतिभिः ॥६॥ यावत्सुमेरु- कुलगिरि-क्षीरोदधि- धरणि सुरनदीपूरं । तावत्सुसिद्धपूजा पाठावेतौ प्रवर्तयताम् ॥१०॥