________________
जैनग्रन्थ-प्रशस्तिसंग्रह १५६. श्रवणद्वादशीकथा (ब्रह्मश्रुतसागर) आदिभाग :
पूज्यपाद-प्रभाचन्द्राऽकलंकमुनिमानितम् ।
नवाऽहंन्तं प्रवक्ष्यामि श्रवणद्वादशीविधिम् ॥१॥ अन्तभाग :
विद्यानन्दिमुनींद्रचन्द्रचरणांभोजातपुप्पंधयः शब्दशः श्रतसागरो यतिवरोऽसौ चार चक्र कथाम् । श्रुत्वा पापकलंकपंकपिलसन्मन्दाकिनीमुत्तम संतः सारसुखाय धर्मतृषिताः कुर्वन्तु पुण्यात्मनाम् ॥४०॥
इतिश्रवणद्वादशी-उपाख्यानं समाप्तम् ।
१६०. रत्नत्रयकथा (ब्रह्मश्रुतसागर) आदिभाग :---
विद्यानन्दप्रदं पूज्यपादं मत्वा जिनेश्वरम्
कथा रत्नत्रयस्याहं वक्ष्ये श्रेयोनिधेः सताम् ॥१॥ सर्वज्ञसारगुणरत्नविभूषणोऽसौ विद्यादिनंदिगुरुरुद्यतरप्रसिद्धः । शिष्येण तस्य विदुषा श्रुतसागरेण रत्नत्रयस्य सुकथा कथितात्मसिद्धय ॥३॥
इति श्रीरत्नत्रयविधानकथानकं समाप्तम् ।
१६१. अनन्तव्रतकथा (ब्रह्मश्रुतसागर) आदिभागः
प्रणम्य परमात्मानमनंतं परमेष्ठिनम् ।
विद्यानंदं प्रवषयेऽहमनंतव्रतसत्कथाम् ॥१॥ अन्तभाग:
सूभिर्देवेन्द्रकीर्तिर्विबुधजननुतस्तस्य पहाब्धिचंद्रो रुद्रो विद्यादिनंदी गुरुरमलतपा भूरिभन्याजभानुः । तत्पादाभोजभूगः कमलदललसरलोचनश्चंद्रवक्त्रः