________________
२१४
जैनग्रन्थ-प्रशस्तिसंग्रह
१५५. आकाशपंचमीकथा ( ब्रह्मश्रुतसागर )
श्रादिभाग. -
सुतं नाभेर्यशस्वत्याः पतिं भरतसद्गुरुम् । आकाशपंचमीं वच्ये नत्वा लोकत्रयप्रभुम् ॥ १॥
अन्तभागः
वाचां लीलावतीनां निधिरमल तपाः संयमोदन्वदिन्दुः, श्रीविद्यानन्दसूरिर्जयतु जगति नाकौकसां पूज्यपादः । रंगद्गङ्गातरंगैस्त्रिभुवनपथगास्पर्द्धिनी यस्य कीर्ति
श्रादिभाग
भूयः शिवाय प्रगुणगुणमणीनां सतां रोहणाद्रिः ॥ १०३ ॥ तस्य श्री श्रुतसागरेण विदुषां वर्येण सौंदर्य---- च्छिष्येण रचि सत्कथानकमिदं पीयूषवर्षोपमम्, सन्तश्चातकवत्पिबंतु जगतामेनोनिदाघः क्षयं भव्यानां वितरंतु पंचगुरवश्चेतोमुदं संपदम् ॥ १०४ ॥ इत्याकाशपञ्चमीव्रतकथा समाप्ता ।
१५६. मुक्तावलीव्रतकथा (ब्रह्मश्रुतसागर )
-
प्रभाचन्द्राऽकलं केष्टविद्यानन्दीडितक्रमाम् । जीवन्मुक्रावलीं नत्वा वच्ये मुक्तावलीव्रतम ||१||
अन्तभाग:
ग्रन्थं ग्रन्थिचयं विघय घटनामुमान्य निर्हणम्, यः सम्बोधयते स्म भव्यनिवहं श्रीमूलसंघेऽनघे । श्रीदेवेन्द्रयशास्तदुतपदे निस्तारको वीरवद्विद्यानंदिमुनीश्वरो विजयते चारित्ररत्नाकरः ॥७७॥ तत्पादाम्बुजचिंतनामृतभृतः सर्वज्ञचन्द्रोदये,
रङ्गमङ्गतरङ्गशोधितमहीरो विशुद्धाशयः ।