________________
सतपरमस्थान प्रतकथा
इतिप्रचंडपंडिताप्रणीसूरिश्रीश्रुतसागरविरचितं ज्येष्ठजिनवरवतोपाख्यानं समाप्तम् ॥१॥
१४४. रविव्रतकथा (ब्रह्मश्रुतसागर) आदिभाग:
प्रणम्य शिरसाहन्तं सिद्धास्त्रैलोक्यमंगलान् । मुनीस्तद्धर्मवाग्देव्यौ रविव्रतमहं ब्रुवे ॥१॥
अन्तभाग.
सरस्वतीगच्छ-सुरद्रु मावलीवलीढभूसेचनधीघनाघनः । चिरं च देवेन्द्रयशा मुनिर्मम प्रकामकामाग्निशमं प्रयच्छतु ॥६॥ भट्टारकघटामध्ये यत्प्रतापो विराजते।। तारास्विच रवेः श्रीदो विद्यानंदीश्वरोऽस्तु मे ॥३२॥ प्रमाण-लक्षणच्छंदोऽलंकारमणिमंडितः । पंडितस्तस्य शिष्योऽयं श्रुतरत्नाकराभिधः ॥६३॥ गुरोरनुज्ञामधिगम्य धीधनश्वकार संसारसमुद्रतारकः (कम्)। स पार्श्वनाथवतसत्कथानकं सतां नितांतं श्रुतसागरः श्रिये ॥६॥
इति रविव्रतकथा समाप्ता । १४५. सप्तपरमस्थानव्रतकथा ( ब्रह्मश्रुतसागर) आदिभागः
विद्यानंद्यकलंकार्य पूज्यपादं जिनेश्वरम् ।
नत्वा ब्रवीम्यहं सप्तपरमस्थानसद्वतम् ॥१॥ अन्तभाग:-- व्रतरतिरकलंकः पूज्यपादो मुनीनां, गुणनिधिरबुधानां बोधिकृत्पद्मनन्दी। जयति महितकांतिः क्षेमकृडिव्यमूर्तिर्मदनमदत्रिदारी देवदेवेंद्रकीर्तिः ॥१२॥
सद्भट्टारक" (?) वर्णनीयश्चेतो यतीनामभिवंदनीयः । विद्यादिनंदी गणभृत्तदीयः सम्यग्जयत्येष गुरुमंदीयः ॥६३५ मया तदादेशवशेन धीमतां प्रकाशितेयं महतां बृहत्कथा ।