________________
१५०
जैनग्रन्थ- प्रशस्तिसंग्रह
तत्पट्टे किल शास्त्रज्ञो विद्याभूषणसूरिराट् । योऽभवत्परमार्थेन प्रसिद्धोऽवनिमंडले ||६१ ॥ तत्पट्टाचलभास्करो गुणनिधिः शास्त्राब्धिपारंगतः श्रीश्रीभूषण एव गौतमनिभो गच्छाधिराजः कविस्तत्पट्टे किल चंद्रकीर्तिमुनिपो भट्टारकाधीश्वरस्तेनेद रचित पुराणमतुलं नाभेयदेवस्य वै ॥ ६२ ॥ पुराणं वृषभेशस्य पवित्रं पापनाशन । सज्जनान् प्रतिबोधाय निर्मितं चंद्रकीर्तिना || ६३ ॥
इति श्रीत्रिभुवनैकचूडामणिश्रीमद्वृषभदेवपुराणे भट्टारक श्रीश्रीभूषणपादपद्म- मधुकरायमान - भट्टारकी चद्र कीर्तिप्रणीते वृषभदेव - निर्वाग्रगमनो नाम पंचविशतिपर्व ॥ समाप्तमिदं ॥
[ बम्बई ऐ० प० स० भ० प्रति
१२२. सुभग सुलोचना - चरित ( भ० वादिचन्द्र )
श्रदिभाग :
प्रणम्य शिरसाऽर्हन्तं स्फूर्जतं ज्ञानतेजसम् । संचिताखिल- पापौघध्वान्तध्वसेककारणम् ||१||
अन्तभाग :
विहाय पदकाठिन्यं सुगमैर्वचनोत्करैः ।
चकार चरितं साध्व्या वादिचन्दोऽल्पमेधसा ||२|| स्वस्ति [श्री] मूलसंघेऽस्मिन् पद्मनन्दीनमाश्रिताः । ते प्रपश्यन्ति सर्वान् [वै] किमत्राश्वर्यमद्भुतम् ॥३॥ देवेन्द्रस्त्वद्यशः पेतुः करैः धृत्वास्ववकीम् (?) | देवेन्द्रकीर्ति ते वन्दे [द]मितानंगसद्बलम् ||४|| विद्यानंदो हि शिष्याणा यत्पुरः पठतापुर (१) । नममि त्रिशुध्या तं ध्यानं दिनश्वमाश्वरम् (?) ||५||