________________
क्षपणासार प्रशस्ति १११. क्षपणासार (माधवचन्द विद्यदेव) आदिभाग:
श्रीसदमसमुद्रनंदनवरः सदरत्नाकरः सत्सेव्यो विमलोऽतुलः सुखकरो लोकप्रकाशप्रदः। उद्यदीबलभद्रमाधवतुतश्रीपादपद्मद्वयो
यो यूयं नमतादराकृधियस्तं नेमिचचन्द्रं सदा ॥१॥ क्षपणासारशास्त्रस्य नादीसूत्रव्याख्यानमिद
श्रीसद्धर्मसमुद्रनदनवरः सप्तागराज्यलक्ष्म्या विशिष्टक्षात्रधर्मेण च युतः समुद्रबिजयप्रियपुत्रः, संवृद्धरत्नाकरः x x x x x एब विध हरिकुलातलकभूतनेमिनाथस्वामिनं शास्त्रकारः स्वयं निर्भरभक्त्या नमन् यूयमपि नमस्कृत्य कृतार्था भवतेति भव्यजनान् प्रेरितवानित्यर्थः । शास्त्रकारस्य गुरु नेमिचन्द्रसिद्धांतचक्रवर्तिवंदनारूपेणायका मगलसूत्रं ब्याख्यानं कर्तव्यं । तद्यथा-यः श्रीसद्धर्मसमुद्रनंदनवरः स्यादाटलक्षणलक्ष्मीजन्मायासभूतः विशिष्टसागाराऽनागार-धम्म-समुद्र-वर्द्धनमुख्यः, संवृद्धरत्नाकरः पंचविंशतिमलरहितविशिष्टसम्यक्तनिरतिचारचारुचारित्रसकलशास्त्रार्थपरिच्छेदनपटियदुष्ट(?)विमलज्ञानरूप-रत्नानामुदयस्याकरभूतः, सत्सेव्यः विद्वज्जनपूज्यः, विमलः अनवरतपरमागमभावनासुधासागरागाहप्रक्षालितात्मीय-कलिकलुषमलपकसदोहः, अतुलः कवि-गमकि-वादि-वाग्मितागुणैरद्वितीयः, सुखकरः मिथ्यात्वाद्यपाय-निराकरणेन सम्यक्त्वाद्युपायप्रदर्शनेन समस्तजनस्य बहतकरः, लोकप्रकाशप्रदः श्रुतज्ञानप्रबलप्रभाकर-प्रभूत-प्रभा-प्रभावेन जनस्य सर्वफ्टार्थाना करतलामलकवदर्शका, उद्यदीबलभद्रमाधवेनः सूहषंडात्मकर्मसद्धातार्थ-धारण प्रतिपादन-समर्थमतिबलविशिष्टगुणरुत्कृष्टमाधवचन्द्रमुनिना पंचागमंत्रकृहस्पतिसमानबुद्धियुत भोजराजप्राज्यसाम्राज्यसमुद्धरणसमर्थ-बाहुबलयुक्त-दानादिगुणोत्कृष्टमहामात्य-पदवी लक्ष्मी-वल्लभ-बाहुबलिमहाप्रधानेन वा, नुत श्रीपाद