________________
जैन ग्रन्थ- प्रशस्तिसंग्रह
यो भव्याज - दिवाकरो यमकरो मारेभपञ्चाननो नानादुःखविधायि कर्मकुभृतो वज्रायते दिव्यधीः । यो योगीन्द्र-नरेन्द्र - वन्दितपदो विद्यार्णवोत्तीर्णवान् ख्यातः केशवनन्दिदेव-यतिपः श्री कुन्दकुन्दान्वयः ||१|| शिष्योऽभूत्तस्य भव्यः सकलजनहितो रामचन्द्रो मुमुक्षुशत्वा शब्दापशब्दान् सुविशदयशमः पद्मनन्द्याभिधानात् (ह्वया है ) । वन्याद्वादी मसिहात्परमयतिपतेः सो व्यधाद्भव्य हेताअँन्थं पुण्यास्रवाख्यं गिरिसमितिमिते दिव्यपद्यैः कथार्थेः ||२|| सार्द्धंश्चतुःसहस्रैय(४५००) मितः पुण्यास्रवाह्वयः । ग्रन्थः स्थेयात् सता चित्ते चन्द्रादिवत्सदाम्बरे ॥३॥ * कुन्दकुन्दान्वये ख्याते ख्यातो देशिगरणामणीः । अभूत सवाधिपः श्रीमान्पद्मनन्दी त्रिरात्रिकः ||४| वृषाधिरूढो गणपो गुणोयतो विनायकानन्दितचित्तवृत्तिकः । उमासमालिङ्गितईश्वरोपमस्ततोप्यभून्माधवनन्दि पण्डितः ||५|| सिद्धातशास्त्रार्णवपारदृश्वा मासोपवासी गुणरत्नभूषितः । शब्दादिवार्थी (१) विबुधप्रधानो जातस्ततः श्रीवसुनन्दिसूरिः ॥ ६ ॥
૪
दिनपतिरिव नित्यं भव्यपद्माब्धिबोधी
सुरगिरिरिव देवैः सर्वदा सेव्यपादः । जलनिधिरिव शश्वत् सर्व्वसत्वानुकम्पी गणभृदजान शिष्यो मौलिनामा तदीयः ||७||
* पंचायती मन्दिर देहलीमे इस ग्रन्थकी दो प्रतियॉ है-एक सं० १५८४ की लिखी हुई, जिसमें प्रशस्तिके इस * चिन्ह तक कुल तीन ही पद्य हैं, दूसरी सं० १७६६ की लिखी हुई है जिसमें ६ पद्य है; परन्तु श्रादिके उक्त तीन पोको छोड़कर शेष ६ पद्योमे जो प्रशस्ति है वह एक जुदी तथा अधूरी जान पडती है - प्रन्थकर्ता के साथ उसका सम्बन्ध व्यक्त नहीं होता ।