________________
१४८
जैन ग्रन्थ- प्रशस्तिसंग्रह
फल कांच कलशकरा शाल्मलिदएडोद्धमुरगोपेता 1 जयतात् त्रिभुवनवन्द्या जगति श्रीकामचाण्डाली ||३|| विरचयति मन्त्रवाद संक्षेपात्सकल जनहितार्थमिदम् । कलिकालोभयभाषा - कविशेखर - मल्लिषेरणगणी ॥४॥ साधक देव्याराधनमशेषजन वश्ययन्त्रतन्त्राणि । ज्वालागईभभेदः शास्त्रेऽस्मिन् कथ्यते स्पष्टम् ||५||
अन्तभाग :--
निःशेषागममन्त्रवादकुशलं वाग्देवताऽलंकृतं । तनत्वा कविशेखरं मुनिवरं श्रीमल्लिपेरणाह्वय ॥ दद्यात्स्त्रर्ण समन्वितोन्नतघटाद् धाराजलं तत्करे ।
साक्षीकृत्य हुताशनानिलय (प) यश्चन्द्रार्कतारागणान् ॥ श्राज्ञाप्रक्रमः १ उद्यन्निर्मल कीर्तिपूरितदिशो विज्ञातजैनागमो । नाम्ना श्रीजिनसे नमूरिरभवद्भव्याम्बुजाना रविः ।
तच्छिष्यः कविशेखरोऽजनि मुनिः श्रीमल्लिषेणो गणी । तेनैष स्वपरोपकारजनकः श्रीमन्त्रवादः कृतः ॥ इत्युभय भाषा कविशेखर श्रीमल्लिषेण सूरि-विरचिते कामचाण्डालीकल्पे ज्वालागर्दभलक्षणाधिकारः पंचमः ।
भाषाद्वय - कविताया कवयो टर्पे वहन्ति तावदिह नालोकयन्ति यावत्कविशेखर - मल्लिषेणमुनिम् ||१||
छन्दोलंकारशास्त्रं किमपि न च परं प्राकृतं संस्कृतं वा काव्यं तच्च प्रबन्धं सुकविजनमनोरंजनं यत्करोति । कुर्वन्नुर्वी - शिलादौ न लिखति किल तत्या ( द्या) ति यावत्समाति स भीमान् मल्लिषेरणो जयतु कविपतिर्वाग्वधूमण्डितास्यः ॥२॥
इति कामचाण्डाली कल्पः समाप्तः ।