________________
जैनप्रन्थ-प्रशस्तिसंग्रह
महारकोऽभूत्तपट्टे विश्वभूषणनामभृत् । सोऽपि विद्यावता श्रेष्ठो विद्यावद्भिनिषेवितः ॥४६॥ तत्पट्टदीपकः श्रीमानभू देवेन्द्रभूषणः। सोऽपि भट्टारको शेयो मट्टारकगुणेर्युतः॥४७॥ सुरेन्द्रभूषणस्तद्वत्तत्प? समशोभयत् । भट्टारकपदस्थायी सदा धर्मोपदेशकृत् ॥४८॥ एषा(बु) भट्टारको योऽभूद्विश्वभूषणसशकः। तच्छिष्यो ब्रह्मपदवी-स्थितो विनयसागरः ॥६॥ तददेव समाख्यातस्तच्छिष्यो हर्षसागरः । एतस्यैव गुरूभूतः पंडितो हरिकृष्णकः ॥२०॥ जीवनादिपदस्तस्य शिष्यो राम इति श्रुतः । तच्छिष्यः पंडितो हेमराजोऽभूद्बुद्धिमान् किल ॥५१॥ एषा मध्ये सूरिपुरे विश्वविख्यातसद्गुणे। पुण्यक्षेत्रे दर्शनाच्च वदनाद्वा सतोऽथवा ॥१२॥ पूर्वोपार्जित-पापौघ-महासंहारकारिणी। श्रीनेमिनाथ-जनुषो भूमिभूने शुभावहे ॥५३॥ प्रतीचोमुखकालिंदी-प्रवाहपरिशोभिते । द्विजादिवर्ण-वसति-प्रदीप्ते क्षेत्रभूमिपे ॥५४॥ श्रीब्रह्महरेसिंधोश्च तनूजो धर्मवित्तमः ।। जिनेन्द्रभूषणः श्रीमद्भट्टारकपदे स्थितः ॥५५॥ शानवान् गुणवास्तद्वद्दयावानतिपुण्यवान् । विराजते सदाभव्यजनैः संपरिवारितः ॥५६॥ कालिदीकूलबहुधावित्तव्ययवलात्किल । निर्माप्य चैत्यभवनं स्थितः सद्धर्मसंमुखः ॥१७॥ तदाशया घटेरस्थ-देवदत्त-कवीशिना । कान्यकुब्जकुलोद्भूत-दीक्षितेन सुबुद्धिना ॥५॥