________________
१०६
जैनग्रन्थ- प्रशस्तिसग्रह
७८. यशोधर - चरित ( भ० सोमकीर्ति )
श्रादिभाग :
प्रणम्य शंकरं देवं सर्वज्ञं जितमन्मथं । रागादिसर्वदोषघ्नं मोहनिद्रा - विवर्जितं ॥१॥ अर्हतः परमाभक्त्या सिद्धान्सूरीश्वरांस्तथा । पाठकान साधव (का) श्च ेति नत्वा परमया मुदा ॥२॥ यशोधरनरेन्द्रस्य जनन्या सहितस्य हि । पवित्रं चरित वक्ष्ये समासेन यथागमं ||३|| जिनेन्द्रवदनोद्भूता नमामि शारदां परा । श्रीगुरुभ्यः प्रमोदेन श्रेयसे प्रणमाम्यहम् ||४|| यत्प्रोक्त हरिषेणाद्यैः पुष्पदंतपुरस्सरैः । श्रीमद्वासवसेनाद्यैः शास्त्रस्यार्णवपारगैः ॥५॥ तच्चरितं मया नूनं बालेन शक्यते कथं । बाहुम्या सागरं घोरं केनापि तरितुं यथा || ६ || तेषा हि क्रमयोर्द्वद्वं नमस्कृत्यातिभक्तितः । समुपार्ज्जु महत्पुण्यं कुर्वे दूरेण पातकं ||७||
अन्तभाग:--
नंदीतटाख्यगच्छे वंशे श्रीराम सेन देवस्य ।
जातो गुणार्णवैकश्च (वश्चैकः) श्रमाश्च (मान् ) श्रभीमसेनेति ॥ ६० ॥ निर्मितं तस्य शिष्येण श्रीयशोधरसज्ञकं । श्रीसोमकीर्तिमुनिना विशोध्याऽधीयता बुधाः ॥६९॥ वर्षे षट्त्रिशसंख्ये तिथिपरगण नायुक्त संवत्सरे (१५३६) वै । पचम्बा पौषकृष्ण दिनकरदिवसे चोत्तरास्ये (स्थे) हि चंद्रे । गोढिल्यां मेदपाटे जिनवर भवने शीतलेन्द्रस्य रम्ये सोमादिकीर्तिनेदं नृपवरचरितं निर्मितं शुद्ध भक्त्या ||६२||