________________
जैनग्रन्थ प्रशस्तिसंग्रह ख्यातस्ततः श्रीजयसेननामा नातस्तप:श्रीक्षतदुःकृतौषः । सत्तकविद्यार्णव-पारदृष्वा विश्वासगेहं करुणास्पदानाम् ॥६॥ प्राचार्यः प्रशमैकपात्रमसमः प्रज्ञादिभिस्वैगुणैः पट्टे श्रीजयसेननामसुगुरोः श्रीब्रह्मसेनो यतिः । सजल्पाम्बुधिमध्यमग्नवपुषः शश्वद्विकल्पोर्मित:(भिः?)
जल्पाका परवादिनोऽत्र विकला: के के न जाता क्षिती ॥१॥ तस्मादजायत गणी गुणिनां गरिष्टो भन्याम्बुजप्रतिविकाशन-पद्मबन्धुः। कंदर्पदर्पदलने भुवन कमल्लो विख्यातकोतिरवनौ कविवीरसेनः ॥२॥ श्रीवीरसेनस्य गुणादिसेनो जातः सुशिष्यो गुणिना विशेषः । शिष्यस्तदीयोऽजनि चारुचित्तः सदृष्टिवन्तो(वान)त्र नरेन्द्रसेनः ॥६शा
गुणसेनोदयसेनौ जयसेनो सम्बभूवुराचार्याः ।
तेषा श्रीगुणसेनः सूरिर्जातः कलाभूरिः ॥१४॥ अतिदुःषमानिकटवर्तिनि कालयोगे नष्टे जिनेन्द्रशिववमनि यो बभूव । आचार्यनामनिरतोऽत्र नरेन्द्रसेनस्तेनेदमागमवचो विशदं निबद्धम् ।।६।।
इति श्रीसिद्धान्तसार(तत्त्वार्थ)सग्रहे प्राचार्यश्रीनरेन्द्रसेन-विरचिते द्वादशमः परिच्छेदः ॥१२॥
७७. द्रौपदी-प्रबंध (जिनसेन सूरि) आदिभाग:
स्रष्ट्र (सप्टे:) षोडशतीर्थाय कृतनामेति शान्तये । चक्रेशाय जिनेशाय नमः शान्ताय शान्तये ॥१॥ येन सप्तदश तीर्थ प्रावर्त पृथुकीर्तिना। तस्मै कुन्थुजिनेन्द्राय नमः प्राक्चक्रवर्तिने ॥२॥ नमोऽष्टादशतीर्थेन प्राणिनामिष्टकारिणे । चक्रपाणिजिनाऽराय निरस्तदुरितारये ॥३॥