________________
६२
जैन ग्रन्थ - प्रशस्तिसंग्रह
७०. विषापहार - टीका ( नागचन्द्रसूरि )
आदिभाग:
वंदित्वा मद्गुरून् पंचज्ञानभूपणहेतवः । व्याख्या विषापहारस्य नागचन्द्रेण कथ्यते || १ || अथातः स्याद्वादविद्यापूर्वकुल्कीलकोटकिरण मालिना गृहस्थाचार्य कुजरे धनंजयसूरिणा सामायिकमनुतिष्ठता तदानीमेव स्वकीयपुत्रस्य सर्पदष्टत्वमाकर्ण्यापि ततोऽचलता भगवद्गुणग्रामदत्तचित्तनाचालमेव स्तुवता कृतस्य स्वस्य प्रभावनिःकाशिततद्गतविषनिषेकाद्रेकस्य तत एव विपापहार इति व्यपदेशभाजोऽति गहनग भारस्य सुखावबोधार्थ बागड़देशमडलाचार्यज्ञानभूषणदेवैर्मुहुर्मुहुरुप रुद्धः काटादिराजममें प्रसिद्धः प्रवादिगजकेशरी बिरुद कविमदविदारी सद्दर्शनज्ञानधारी नागचंद्रसूरिर्धनजयसूर्यभिहितार्थ व्यक्तीकतुमशक्नुवन्नपि गुरुवचनमलवनीयमिति न्यायेन तदभिप्रायं विवरीतुं प्रति - जानीते ।
अन्तभाग:
इयमर्हन्मत क्षीरपारावारपार्वणशशाकस्य मूलसघदेशीगणपुस्तकगकुछ पनशोकावलीतिलकालंकारस्य तौलव देशविदेश - पवित्रीकरणप्रवणश्रीमल्ललितकीर्ति भट्टारकस्याग्रशिष्य गुग्गवद्दणपोपण-सकलशास्त्राध्ययनप्रतिष्ठायात्राद्युपदेशानूनधर्मप्रभावनाधुरीण- देवचद्रमुनीन्द्रचरणनख किरणचंद्रिकाचकोरायमाणेन कर्णाय ( ? ) विप्रकुलोत्तस - श्रीवत्स गोत्रपवित्रपार्श्वनाथगुमटाम्बातनूजेन प्रवादिगजकेशरिणा नागचंद्रसूरिणा विषापहारस्तोत्रस्य कृतव्याख्या कल्पान्त तत्त्वबोधायेति भद्रम् ।
इति विपापहारस्तोत्र - टीका समाप्ताः
७१. पाण्डवपुराण (श्री भूपणकृत ) आदिभाग :
प्रणम्य श्रीजिनं देवं सर्वज्ञं संभवं शिवं । कुर्वे हि पाण्डवाना हि चरित्रं चित्तरंजनम् ॥१॥