________________
जैनग्रन्थ-प्रशस्तिसग्रह अष्टाविंशं शतं तस्याः प्रमाणं श्लोकपद्यतः । अनुष्टुपसंख्यया पंचचत्वारिशं शतं मतं ॥२॥ विदोषं सगुणं रीतिरसालकारगं मुदे । काव्यं कुर्वीत शब्दार्थरचनानिपुणः कविः ॥३॥
श्रन्तभाग:
राज्ञी विट्ठलदेवीति ख्याता शीलविभूषणा । तत्पुत्रः कामिरायाख्यो 'राय' इत्येव विश्रुतः ॥४६॥ तद्भूमिपालपाठार्थमुदितेयमल-क्रिया ।
सक्षेपेण बुधैापा यद्यत्रास्ति(?) विशोध्यताम् ॥४७॥ इति श्रीमदजितसेनाचार्य-विरचिने शृङ्गारमंजरीनामालंकारे तृतीयः परिच्छेदः ।।
(दूसरी प्रतिमे' ) श्रीसेनगणाग्रगण्यतपोलक्ष्मीविराजिताजितसेनदेवयतीश्वरविरचितः शृङ्गारमंजरो नामालकारोऽयम् ।।
६८. शङ्खदेवाष्टक ( भानुकीर्ति) आदिभाग:
शतमखशतवन्द्यो मोक्षकान्ताभिनन्द्यो दलितमदनचापः प्राप्तकैवल्यरूपः । कुमतवनकुठारः शङ्खरत्नावतारः
त्रिभुवननुतदेवः पातु मा शङ्खदेवः ॥१॥ अन्तभाग :
जिनपदकमलालिर्जनभूतेपि कालि
मुनिपतिमुनिचन्द्रः शिष्यराजेन्द्रचन्द्रः । १ दोनो प्रति ऐ०प० सरस्वतीभवन बम्बईमें हैं । अगस्त सन् १९२८ में उन्हीं परसे यह प्रशस्ति ली गई थी।