________________
प्रद्युम्नचरित-प्रशस्ति
६१. प्रद्युम्नचरित (महासेन सूरि)
आदिभाग :
श्रीमन्तमानस्य जिनेन्द्र नेमि ध्यानाग्निदग्धाखिलघातिकक्षम् । व्यापारयामास न यत्र वारणान जगद्विजेता मकरध्वजोऽपि ||१|| बाल्येपि यस्याप्रतिमं सुरेन्द्रो विलोक्य रूप पुनरीक्षते स्म । चतुः सहस्रं युगपद्विधाय नत्वा च तं वीरजिनं विरागम् ||२|| जिनेन्द्रवक्त्राम्बुजराजहमी प्रणम्य शुक्लामथ भारतीं च । उपेन्द्रसूनचरितं प्रवक्ष्ये यथागमं पावनमात्मशक्त्या ||३|| कवीन्द्र सोमानमितैर्यदुक्तं गणेश्वरायैरपि विस्तरे । तत्पादपद्मद्वय भक्तिशक्त्या संक्षिप्य तद्वक्तुमय श्रमो नः ||४|| अन्तभाग :
श्री लाट वर्गटनभस्तलपूर्णचन्द्रः शास्त्रार्णवान्तगसुधीस्तपसा निवासः । काता(कतोः) कलावपि न यस्य शरै विभिन्नं स्वान्त बभूव स मुनिर्जयसेन नामा ॥ तीर्णागमाम्बुधिरजायत तस्य शिष्यः श्रीमद्गुणाकर- गुणाकर सेनसूरिः । यो वृत्त-बोध-तपसा यशसा च नूनं प्रापत्परामनुपमामुपमा मुनीना ॥२॥ तच्छिष्य विदिताखिलो समय वादी च वाग्मी कविः शब्दब्रह्म विचित्रधामयशसा मान्या सतामग्रणीः । श्रामीत् श्रीमह्सेनग्रिरनघः श्रीमुंजराजाचितः सीमा दर्शन बोधवृत्ततपसा भव्याब्जनी - बाधवः ||३|| श्री सिन्धुराजस्य महत्तमेन श्रीपर्पटेनाचितपादपद्मः । चकार तेनाभिहितः प्रबन्ध स पावनं निष्ठितमङ्गजस्य ॥४॥ श्रीमत् काममहानरस्य चरितं संसारविच्छेदनः श्रद्धाभक्तिपराः प्रबुद्धमनसाः शृण्वन्ति ये सत्तमाः । संवेगात्कथयन्ति ये प्रतिदिनं योऽधीयते संततं भूयासुः सकलास्त्रिलोकमहिताः श्रीवल्लभेन्दुश्रियः ||५||