________________
जैनग्रन्थ-प्रशस्तिसंग्रह
यावत्सजनचित्तनिश्चलधरा यावजलश्रीधरा यावञ्चक्रधरा सुरेश्वरधरा पातालपाताधरा । यावच्चन्द्रदिवाकरपृथुधश यावच्च धर्मस्थिति
स्तावच्छीजिनराजचंद्रचरणपूजा समानदतु ॥२०॥ शिवाभिरामाय शिवाभिरामं शिवाभिरामात्र शिवाभिरामः। शिवाभिरामप्रदकं भज त्वं मुहुर्मुहुभों वद कि वदामि ॥२१॥
इति श्रीषट्चतुर्थवर्तमानजिनार्चा शिवाभिरामावनिपसूनुकृताद्भुततरेई, समासा।
५६. पार्श्वपुराण ( भ० चन्द्रकीर्ति) आदिभाग:
मुक्तिस्त्रीहृदयाश्लिष्टं केवल श्रीविभूषणं । श्रीसर्वज्ञमह वन्दे प्राप्तानंतचतुष्टयम् ॥१॥ - X X X स जीयाद्रामसेनाख्यः काष्ठांबरनभाशुमान् । भट्टारकः सदाश्रेष्टः शब्दशास्त्राब्धिपारगः ॥३०॥ महापुराणसत्काव्य-कीर्तनान्निचितं यशः । भूतले यस्य जीयात्त जिनसे नो यत्तीश्वरः ॥३१॥ यदुत्तरपुराणस्य कर्ता नैयायिकः सुधीः ।
सूरिः श्रीगुणभद्राख्यो भू(जी)याद्भुमंडले कविः ॥३२॥ अन्तभाग :
स्वस्ति श्रीमति काष्ठसंघतिलके गच्छे सुनन्दीतटे यादीन्द्रोरुसुपण्डितेन्द्रकविसच्चन्द्रावलीभूषिते । श्रासीदन्वयमण्डितो गुणनिधिर्विद्यागणाधीश्वरः सूरिः श्रीयुतरामसेन इह वै विद्यानवद्यः सदा १६५।।